Enter your Email Address to subscribe to our newsletters

कानपुरम्, 16 अप्रैलमासः (हि.स.)। “नारी-शक्ति-वन्दन-अधिनियमः” देशस्य अर्ध-जनसंख्यायाः सशक्तीकरणस्य दिशि ऐतिहासिकं पादक्षेपः अस्ति। एषः विधिः महिलाभ्यः राजनीतौ अधिक-अवसरान् दास्यति तथा लोकतन्त्रं अधिकं दृढं करिष्यति। सर्वे कार्यकर्तारः गृहात् गृहम् गत्वा अस्य जनकल्याणकारी-पहलस्य जानकारीं प्रसारयन्तु। समाजे महिलानां सम्मान-अधिकारयोः विषये जागरूकतायाः वर्धनं अत्यावश्यकम् अस्ति। इति वचनानि गुरुवासरे भाजपा-दक्षिण-जिलाध्यक्षः शिवराम सिंह उक्तवान्।
नगरस्य दक्षिण-भागे भारतीय जनता पार्टी द्वारा छावनी-विधानसभा-क्षेत्रस्य श्याम-नगर-स्थिते आर.के.-गैलेक्सी-स्थले “नारी-शक्ति-वन्दन-अधिनियमस्य” समर्थनार्थं विशाल-गोष्ठ्याः आयोजनं कृतम्। अस्मिन् कार्यक्रमे बहुसंख्यया मातृशक्तिः तथा कार्यकर्तारः सहभागिनः आसन्।
कार्यक्रमं सम्बोधयन्तः अन्ये वक्तारः उक्तवन्तः यत् नरेंद्र मोदी नेतृत्वे महिलानां उत्थानाय अनेकानि ऐतिहासिक-निर्णयानि कृतानि, येषां लाभः देशस्य कोटिशः महिलाभ्यः प्राप्तः अस्ति। ते अवदन् यत् एषः अधिनियमः महिलानां राजनैतिक-सशक्तीकरणस्य दिशि मील-स्तम्भः भविष्यति।
सर्वे वक्तारः एकस्वरेण “नारी-शक्ति-वन्दन-अधिनियमस्य” समर्थनार्थं जन-जागरूकता-अभियानं अधिकं तीव्रं कर्तुं संकल्पं कृतवन्तः। अस्मिन् सन्दर्भे कार्यकर्तृभ्यः अपि आह्वानं कृतं यत् ते समाजस्य प्रत्येकं वर्गं प्रति अस्य विधेः सूचनां प्रसारयन्तु तथा महिलानां अधिकाराणां विषये सकारात्मकं वातावरणं निर्मीयताम्।
कार्यक्रमे पूर्व-विधायकः रघुनन्दन-भदोरिया, जसविन्दर-सिंह, अर्जुन-बेरिया, भूपेन्द्र-त्रिपाठी, आभा-द्विवेदी, अनीता-त्रिपाठी, सुषमा-चौहान, ममता-राजपूत, मधु-तिवारी तथा आशा-पाण्डे इत्यादयः अनेकाः पदाधिकाऱिणः कार्यकर्तारश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार