Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 अप्रैलमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी आन्ध्रप्रदेशस्य कुरनूल-जिलायां जातायाः दुर्घटनायाः विषये दुःखं व्यक्तवान्। तेन शोकसंतप्त-परिवारान् प्रति स्वस्य संवेदनाः प्रकटिताः तथा घायितानां शीघ्रस्वास्थ्यलाभाय प्रार्थना कृता।
प्रधानमन्त्रिणा घोषणा कृता यत् प्रधानमन्त्री-राष्ट्रीय-राहत-कोषात् (पीएमएनआरएफ) प्रत्येकस्य मृतकस्य परिजनानां कृते द्विलक्ष-रूप्यकाणां अनुग्रह-राशिः प्रदास्यते। घायितेभ्यः पञ्चाशत्-सहस्र (50,000) रूप्यकाणि दास्यन्ते।
प्रधानमन्त्रिकार्यालयेन सामाजिक-नंमाध्यम-मञ्चे “एक्स” इति नाम्नि लेखनं कृत्वा उक्तं यत् प्रधानमन्त्री उक्तवान् यत् आन्ध्रप्रदेशस्य कुरनूल-जिलायां जाताऽयं दुर्घटना अत्यन्तं दुःखदायिनी अस्ति।
---------------
हिन्दुस्थान समाचार