प्रधानमंत्री मोदी कथितवान्-महिला सशक्तिकरणस्य दिशि ऐतिहासिकपदमुत्थापयिष्यति संसदो विशेष सत्रम्
नव दिल्ली, 16 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे उक्तवान् यत् अद्य आरभ्यमाणः संसदः विशेषसत्रम् नारीसशक्तीकरणस्य दिशि ऐतिहासिकं पदं भविष्यति। तेन उक्तम् यत् मातॄणां भगिनीनां च सम्मानः एव राष्ट्रस्य सम्मानः अस्ति, तथा च अस्य भ
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नव दिल्ली, 16 अप्रैलमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे उक्तवान् यत् अद्य आरभ्यमाणः संसदः विशेषसत्रम् नारीसशक्तीकरणस्य दिशि ऐतिहासिकं पदं भविष्यति। तेन उक्तम् यत् मातॄणां भगिनीनां च सम्मानः एव राष्ट्रस्य सम्मानः अस्ति, तथा च अस्य भावनया सह देशः अस्मिन् मार्गे दृढतया अग्रे गच्छति।

प्रधानमन्त्रिणा सामाजिकमाध्यममञ्चे “एक्स” इति नाम्नि संस्कृतसुभाषितम् अपि साझीकृतम्, यस्य माध्यमेन तेन नारीणां ज्ञानस्य तथा तासां भूमिकायाः महत्त्वं रेखाङ्कितम्। सुभाषितम् अस्ति—

“व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम्।

ता त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत॥”

अस्य अर्थः अस्ति यत् नारी स्वस्य ज्ञानप्रकाशेन अज्ञानरूपं तमः निवार्य सम्पूर्णं विश्वं प्रकाशितवती भवति। अतः ये जनाः समृद्धेः श्रेष्ठगुणानां च अभिलाषिणः सन्ति, ते सर्वदा नारीणां सम्मानं कुर्वन्ति।

प्रधानमन्त्री उक्तवान् यत् विशेषसंसदसत्रस्य माध्यमेन देशः नारीसशक्तीकरणस्य दिशि दृढं निर्णायकं च पदं स्थापयितुं गच्छति।

---------------

हिन्दुस्थान समाचार