संसदि विधेयकत्रयं प्रस्तुतं, कांग्रेस विरोधे आतुरः
नवदिल्ली, 16 अप्रैलमासः (हि.स.)। संसदः विशेषसत्रे अद्य लोकसभायां सरकारेण त्रयः महत्वपूर्णाः विधेयकाः प्रस्तुताः। कांग्रेसदलस्य नेता केसी वेणुगोपाल एतस्य विरोधं कृतवान्। अस्मिन् विषये केन्द्रीयगृहसहकारितामन्त्री अमित शाह उक्तवान् यत् वेणुगोपालः एत
21b06bc959ed641869bd239093bcca17_1680675541.jpg


नवदिल्ली, 16 अप्रैलमासः (हि.स.)।

संसदः विशेषसत्रे अद्य लोकसभायां सरकारेण त्रयः महत्वपूर्णाः विधेयकाः प्रस्तुताः। कांग्रेसदलस्य नेता केसी वेणुगोपाल एतस्य विरोधं कृतवान्। अस्मिन् विषये केन्द्रीयगृहसहकारितामन्त्री अमित शाह उक्तवान् यत् वेणुगोपालः एतेषां विधेयकानां गुणदोषयोः विषये टिप्पणीं कर्तुं न अर्हति, सः केवलं तकनीकी-आपत्तयः एव उत्थापयितुं शक्नोति। सरकारः चर्चाकाले विपक्षाय दृढं प्रत्युत्तरं दास्यति।

समाजवादीदलः महिला-आरक्षण-विधेयकस्य विरोधं न कर्तुम् निर्णयं कृतवान्। विशेषसत्रस्य आरम्भे एव विधिमन्त्री अर्जुन राम मेघवाल संविधानस्य (131तमः संशोधनः) विधेयकं 2026 तथा परिसीमनविधेयकं 2026 सदसि प्रस्तुतुं प्रस्तावं कृतवान्। केन्द्रीयगृहमन्त्री अमित शाह केन्द्रशासितप्रदेश-कानून (संशोधन) विधेयकं 2026 प्रस्तुतुं प्रस्तावितवान्। एते विधेयकाः देशस्य निर्वाचन-प्रशासनव्यवस्थायाः सम्बन्धितानां महत्वपूर्णपरिवर्तनानां विषये सन्ति।

कांग्रेसनेता केसी वेणुगोपाल एतेषां त्रयाणां विधेयकानां प्रस्तुतीकरणस्य विरोधं कृतवान्। तेन संविधानस्य (131तमः संशोधनः) विधेयकं 2026, केन्द्रशासितप्रदेश-कानून (संशोधन) विधेयकं 2026 तथा परिसीमनविधेयकं 2026 सदसि आनयनस्य विरुद्धम् आपत्तिः प्रकटिता।

अस्मिन् विषये अमित शाह प्रतिक्रिया दत्तवान्। सः उक्तवान् यत् केसी वेणुगोपालः विधेयकानां गुणदोषयोः विषये टिप्पणीं कर्तुं न शक्नोति, केवलं तकनीकी-आपत्तयः एव उत्थापयितुं शक्नोति। सः अपि उक्तवान् यत् सरकारः चर्चाकाले विपक्षाय सशक्तं प्रत्युत्तरं दास्यति।

लोकसभायां समाजवादीदलस्य सदस्यः धर्मेंद्र यादव उक्तवान् यत् तेषां दलं संविधानस्य (131तमः संशोधनः) विधेयकं 2026, केन्द्रशासितप्रदेश-कानून (संशोधन) विधेयकं 2026 तथा परिसीमनविधेयकं 2026 इत्येतानां विरोधं करोति। किन्तु तेषां दलं महिला-आरक्षणस्य महान् समर्थकः अस्ति, अस्मिन् विषये किमपि सहमतं न भविष्यति।

---------------

हिन्दुस्थान समाचार