डॉ.पद्म-भानु-सिंहः लण्डन-नगरस्य “हाउस-ऑफ-पार्लियामेण्ट्”-संस्थया कर्करोग-चिकित्सा-सेवायां सम्मानितः
पश्चिम-चम्पारणम् (बगहा), १६ अप्रैलमासः (हि.स.)। बिहार-राज्यस्य पश्चिम-चम्पारण-जनपदे बगहा-वन-विकास-भारती-संस्थायां कार्यरतः कैंसर-चिकित्सकः डॉ.पद्मभानु-सिंहः लन्दन-नगरस्य “हाउस ऑफ पार्लियामेण्ट्” इत्यत्र आयोजिते अन्ताराष्ट्रिय-सम्मेलने सम्मानितः। १
Cancer


पश्चिम-चम्पारणम् (बगहा), १६ अप्रैलमासः (हि.स.)। बिहार-राज्यस्य पश्चिम-चम्पारण-जनपदे बगहा-वन-विकास-भारती-संस्थायां कार्यरतः कैंसर-चिकित्सकः डॉ.पद्मभानु-सिंहः लन्दन-नगरस्य “हाउस ऑफ पार्लियामेण्ट्” इत्यत्र आयोजिते अन्ताराष्ट्रिय-सम्मेलने सम्मानितः।

१० तः १४ अप्रैलपर्यन्तं आयोजिते “इंटरनेशनल होलिस्टिक कॉन्फ्रेंस” इत्यस्मिन् विश्वस्य विभिन्न-देशेभ्यः आगतैः प्रायः १५० विशेषज्ञैः सह सः स्वस्य शोधकार्यं तथा अनुभवाः प्रस्तुतवान्। तस्य कैंसर-रोग-सम्बद्धं शोध-केस-प्रस्तुतीकरणं विशेषतया प्रशंसितम्।

अस्मिन् अवसरे ब्रिटिश-सांसदौ लॉर्ड-कृष्ण-रावलः तथा शिवानी-राजा इत्येतौ तं उत्कृष्ट-शोध-योगदानार्थं सम्मानितवन्तौ। एतत् सम्मानं तस्य दीर्घकालिक-शोध-साधनायाः तथा होम्योपैथिक-चिकित्सा-क्षेत्रे योगदानस्य परिणामः इति परिजनेन अरुण-सिंहेन सूचितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता