भारतीय भाषासु निहितं भारतस्य आत्मा : द्रौपदी मुर्मुः
वर्धा, 16 अप्रैलमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् भारतीयाः भाषाः एव राष्ट्रस्य आत्मनः यथार्था अभिव्यक्तिः सन्ति। सा अवदत् यत् विविधासु भारतीयासु भाषासु संस्कृतिः संवेदनशीलता चेतना च समानरूपेण प्रवहन्ति, याः भारतस्य एकतां सुदृढां क
महाराष्ट्र के वर्धा स्थित महात्मा गांधी अंतरराष्ट्रीय हिंदी विश्वविद्यालय के दीक्षांत समारोह को संबोधित कर


वर्धा, 16 अप्रैलमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् भारतीयाः भाषाः एव राष्ट्रस्य आत्मनः यथार्था अभिव्यक्तिः सन्ति। सा अवदत् यत् विविधासु भारतीयासु भाषासु संस्कृतिः संवेदनशीलता चेतना च समानरूपेण प्रवहन्ति, याः भारतस्य एकतां सुदृढां कुर्वन्ति।

गुरुवासरे महाराष्ट्रराज्यस्य वर्धानगरे स्थिते महात्मा गांधी अन्तरराष्ट्रीय हिंदी विश्वविद्यालयस्य दीक्षान्तसमारोहे राष्ट्रपतिः मुर्मु संबोधनं कृतवती। सा प्रसन्नता व्यक्तवती यत् देशस्य विभिन्नराज्येभ्यः विशेषतः पूर्वोत्तरप्रदेशेभ्यः बहवः छात्राः अस्मिन् विश्वविद्यालये शिक्षां प्राप्नुवन्ति। सा अवदत् यत् अन्तरभाषिकसंवादस्य परम्परा हिंदी सहित सर्वासां भारतीयभाषाणां विकासे महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

राष्ट्रपतिः छात्रान् स्वस्य सांस्कृतिकविरासतां प्रति गौरवं कर्तुं उपदिष्टवती। सा द्वयोः प्रमुखयोः राष्ट्रीयलक्ष्योः प्रति विशेषं ध्यानं दातुम् आह्वानं कृतवती। प्रथमम् औपनिवेशिकमानसिकतायाः अवशेषान् समूलं नाशयितुम्, द्वितीयम् भारतीयज्ञानपरम्परायाः पुनर्स्थापनम्। सा स्पष्टतया उक्तवती यत् कस्यापि भाषायाः विरोधः न कर्तव्यः, अपि तु सर्वासां भारतीयभाषाणां सम्मानः गौरवं च कर्तव्यम्।

सा उक्तवती यत् महात्मा गांधी नाम्ना विश्वविद्यालयस्य नामकरणं युक्तम् अस्ति, तथा च तेन सम्बद्धाः सर्वे जनाः हिंदी सहित अन्यासां भारतीयभाषाणां संवर्धनाय समर्पिताः भवितुम् अर्हन्ति। सा विश्वासं व्यक्तवती यत् विश्वविद्यालयसम्बद्धाः जनाः गांधीमहाशयस्य आदर्शान् अनुसृत्य अस्य प्रतिष्ठां निरन्तरं वर्धयिष्यन्ति।

शिक्षायाः महत्त्वं प्रतिपादयन्ती राष्ट्रपतिः अवदत् यत् महात्मा गांधी शिक्षा स्वावलम्बनस्य आधारः इति मन्यते स्म। सा तादृशीं शिक्षां एव सार्थकीं अवदत् या जनानां जीवनावश्यकताभिः सम्बद्धा भवति तथा राष्ट्रहिते योगदानं ददाति। सा उक्तवती यत् या शिक्षा जनभावनाः अवगच्छति समाजस्य प्रति उत्तरदायित्वं निर्वहति सा एव वास्तविकशिक्षा अस्ति।

राष्ट्रपतिः अस्मिन् विषये बलं दत्तवती यत् स्वभाषायाम् एव सृजनं नवोन्मेषः मौलिकचिन्तनं च सम्भवति। सा छात्रान् अनुकरणस्य स्थानम् अपास्य मौलिकतां स्वीकर्तुम् आह्वयत्। सा अवदत् यत् सशक्तम् आत्मनिर्भरं विकसितं च भारतं भारतीयभाषाणां सुदृढाधारे एव निर्मातुं शक्यते।

सा विश्वासं व्यक्तवती यत् विश्वविद्यालयस्य छात्राः न केवलं स्वस्य व्यक्तिगतविकासे अपि तु राष्ट्रनिर्माणे अपि महत्त्वपूर्णं योगदानं दास्यन्ति तथा वैश्विकस्तरे भारतस्य प्रतिष्ठां नूतनशिखराणि प्रति नेष्यन्ति।

---------------------

हिन्दुस्थान समाचार