Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 अप्रैलमासः (हि.स.)।
संसदस्य विशेष-त्रिदिवसीय-सभायाः प्रथम-दिने गुरुवासरे राज्यसभायां भारतीयजनतापार्टी-अध्यक्षः नितिननवीनः सहिताः अन्ये नवनिर्वाचित-सदस्याः शपथं स्वीकृतवन्तः। राज्यसभया पूर्व-सदस्या मोहसिनाकिदवई तथा पार्श्व-गायिका आशाभोसले इत्येताभ्यां प्रति श्रद्धाञ्जलिः अर्पिता।
ततः अनन्तरं राज्यसभायाः कार्यवाही १७ अप्रैल-दिने प्रातः ११ वादनपर्यन्तं स्थगिता अभवत्। त्रिदिवसीय-सभायां श्वः राज्यसभायां महिला-आरक्षणस्य मार्गं प्रशस्तं करणीयं संविधान-संशोधन-विधेयकं तथा अन्ये द्वौ विधेयकौ चर्चायाः आरम्भः भविष्यति। अद्य लोकसभायां अस्मिन् विषये चर्चा प्रवर्तते तथा श्वः एते विधेयकाः सदनात् पारिताः भविष्यन्ति।
राज्यसभायां सभापतिः सीपीराधाकृष्णनः तेराशगोवाला (भाजपा असम), जोगेनमोहन (भाजपा असम), सुजीतकुमार (भाजपा ओडिशा), डॉ अभिषेकमनुसिंघवी (काङ्ग्रेस तेलङ्गाना), वेमनरेन्द्ररेड्डी (काङ्ग्रेस तेलङ्गाना), विनोदकुमारतावड़े (भाजपा महाराष्ट्र), अनुरागशर्मा (काङ्ग्रेस हिमाचलप्रदेश), संजयभाटिया (भाजपा हरियाणा), प्रमोदबोरो (यूपीपी (एल) असम), करमवीरसिंहबौद्ध (काङ्ग्रेस हरियाणा), फूलोदेवीनेतम (काङ्ग्रेस छत्तीसगढ़), लक्ष्मीवर्मा (भाजपा छत्तीसगढ़), शिवेशकुमार (भाजपा बिहार), रामनाथठाकुर (जेडीयू बिहार) तथा उपेन्द्रकुशवाहा (आरएलएम बिहार) इत्येतेषां सदस्यनाम् शपथं दत्तवान्। उपसभापतिः सर्वान् नूतन-सदस्यान् अभिनन्दितवान्।
नितिननवीनः एक्स-माध्यमे उक्तवान्— “अद्य संसदस्य उच्च-सदने राज्यसभायाः सदस्यरूपेण शपथं स्वीकृत्य राष्ट्रसेवायाः नूतन-अध्यायस्य शुभारम्भं करोमि। एतत् मम कृते अत्यन्तं गौरवपूर्णः क्षणः अस्ति। अहं संकल्पं करोमि यत् सदने बिहारस्य स्वरं स्पष्टतया उद्घोषयन् ‘विकसित-भारत’ इत्यस्य लक्ष्यस्य प्राप्तये तथा जन-आकांक्षाणां पूर्तये पूर्ण-निष्ठया समर्पणेन च निरन्तरं कार्यं करिष्यामि।”
---------------
हिन्दुस्थान समाचार