सीहोर-नगरस्य रोजगार-मेलापक: अद्य : ११ निर्माण्य: १४००त: अधिकेषु पदेषु यूनां नियुक्तिं करिष्यन्ति
सीहोरनगरम्, १६ अप्रैलमासः (हि.स.)।मध्यप्रदेश-राज्यस्य सीहोर-जनपदे यूनां कृते रोजगार-स्वरोजगार-अवसरान् प्रदातुं अद्य (गुरुवासरे) प्रातः ११ वादने पीएम-कॉलेज-ऑफ-एक्सीलेंस-स्थले “युवा-संगम-रोजगार-स्वरोजगार-अप्रेन्टिसशिप-मेला” आयोजितः क्रियते। जनसम्पर्
रोजगार मेला (फाइल फोटो)


सीहोरनगरम्, १६ अप्रैलमासः (हि.स.)।मध्यप्रदेश-राज्यस्य सीहोर-जनपदे यूनां कृते रोजगार-स्वरोजगार-अवसरान् प्रदातुं अद्य (गुरुवासरे) प्रातः ११ वादने पीएम-कॉलेज-ऑफ-एक्सीलेंस-स्थले “युवा-संगम-रोजगार-स्वरोजगार-अप्रेन्टिसशिप-मेला” आयोजितः क्रियते।

जनसम्पर्क-अधिकारी देवेन्द्र-ओगारे इत्यनेन उक्तं यत् अस्मिन् रोजगार-मेलापके रोजगार-विभागेन स्थानीय-प्रदेशीय-अन्यराज्यीय-निर्माण्यः आमन्त्र्य युवभ्यः रोजगारः प्रदास्यते। अस्मिन् मेलापके प्रायः ११ निर्माण्यः १४००तः अधिकेषु पदेषु यूनां चयनं करिष्यन्ति। एवं च जिला-व्यापार-उद्योग-केन्द्रेण स्वरोजगार-विभागस्य लाभार्थिनः लाभान्विताः कृत्वा नवीन-प्रकरणानि अपि निर्मास्यन्ते।

आईटीआई-विभागेन च अप्रेन्टिसशिप-अवसराणां कृते यूनां चयनं करिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता