Enter your Email Address to subscribe to our newsletters

नामक्कल 16 अप्रैलमासः (हि.स.)।
द्रमुकदलस्य प्रमुखः तथा एम.के. स्टालिन अद्य परिसीमनविधेयकस्य 2026 प्रतिलिपीनां दाहनं कृत्वा स्वस्य विरोधं प्रदर्शितवान्। अद्य संसदः विशेषसत्रम् आरभ्यते। अस्मिन् सत्रे नारीणां कृते त्रिंशत्-त्रयांश (33%) आरक्षणविधेयकं तथा परिसीमनविधेयकं 2026 प्रस्तोतुं निर्धारितम् अस्ति।
महिला-आरक्षण-संशोधन-विधेयकस्य विषये विपक्षदलैः पूर्णसमर्थनं दत्तम्, किन्तु परिसीमनविधेयकस्य तीव्रः विरोधः कृतः अस्ति। विशेषतः अस्य विधेयकस्य विरोधे द्रमुकप्रमुखः तथा तमिलनाडुराज्यस्य मुख्यमन्त्री एम.के. स्टालिन आरम्भात् एव दृढतया स्थितवान् अस्ति।
तेन अस्य विधेयकस्य विरोधार्थं तमिलनाडुराज्ये सर्वत्र गृहेषु कृष्णध्वज-फहरणस्य आह्वानं कृतम्। नामक्कल-जिलायां निर्वाचनप्रचारस्य समये मुख्यमन्त्री स्टालिन कृष्णवर्णीयं वस्त्रं धारयित्वा ध्वजस्तम्भे कृष्णध्वजं आरोपितवान् तथा परिसीमनविधेयकस्य प्रतिलिपीनां दाहनं कृत्वा “युद्धं करिष्यामः, युद्धं करिष्यामः… तमिलनाडु युद्धं करिष्यति… वयं सर्वे मिलित्वा विजयिष्यामः…” इति घोषणाः कृतवान्।
मुख्यमन्त्री स्टालिन “एक्स” इति सामाजिकमाध्यमे लिखितवान् यत् तमिलनाडुराज्ये सर्वत्र विरोधस्य अग्निः प्रसारितः भवतु।
---------------
हिन्दुस्थान समाचार