तमिलनाडु-निर्वाचनम् : टीवीके-पक्षस्य घोषणा-पत्रं प्रकाशितम्, महिलाभ्यः प्रतिमासं २५०० रुप्यकाणि दातुं वचनम्
चेन्नईनगरम्, १६ अप्रैलमासः (हि.स.)। तमिलनाडु-विधानसभा-निर्वाचन-२०२६ पूर्वं तमिलगा-वेत्रि-कझगम् (टीवीके) इत्यस्य प्रमुखः अभिनेता-विजयः स्वं निर्वाचन-घोषणा-पत्रं प्रकाशितवान्। तेन उक्तं यत् तमिलनाडु-जनानां कल्याणं तस्य दलस्य प्रमुखं लक्ष्यं भविष्यति,
टीवीके अध्यक्ष विजय का ऐलान!....


टीवीके अध्यक्ष विजय का ऐलान!....


चेन्नईनगरम्, १६ अप्रैलमासः (हि.स.)। तमिलनाडु-विधानसभा-निर्वाचन-२०२६ पूर्वं तमिलगा-वेत्रि-कझगम् (टीवीके) इत्यस्य प्रमुखः अभिनेता-विजयः स्वं निर्वाचन-घोषणा-पत्रं प्रकाशितवान्। तेन उक्तं यत् तमिलनाडु-जनानां कल्याणं तस्य दलस्य प्रमुखं लक्ष्यं भविष्यति, तथा च यदि सत्ता प्राप्ता भवति तर्हि सर्वे वचनानि पूर्णानि करिष्यन्ते, यानि च न उक्तानि सन्ति तानि अपि कार्यान्वितानि भविष्यन्ति।

नुंगमबक्कम्-स्थिते निजी-होटल-मध्ये प्रकाशिते घोषणापत्रे महिलानां कृते अनेकाः योजनाः घोषिताः। ६० वर्षात् न्यून-वयस्काः महिलाः प्रतिमासं २५०० रुप्यकाणि प्राप्तुम् अर्हन्ति इति वचनम् अस्ति। प्रत्येकं परिवाराय वार्षिकं ६ रसोई-अनीलकोषाः, निर्धन-परिवाराणां विवाहेषु ८ ग्राम-स्वर्णं तथा दुल्हनाय उत्तम-रेशमी-साटिका इत्यपि वचनम् अस्ति। स्वयं-सहायता-समूहानां कृते ५ लक्ष-रुप्यकपर्यन्तं ब्याज-रहित-ऋणम् अपि प्रस्तावितम्।

शिक्षा-क्षेत्रेऽपि दलं व्यापकानि वचनानि दत्तवान्। १०० कामराज-स्तरीय-विद्यालयाः, सर्वेषु जनपदेषु ६–१२ कक्षापर्यन्तं निःशुल्क-आवासीय-विद्यालयाः, प्रत्येकं विद्यालये आधुनिक-अवसंरचना तथा गुणवत्तापूर्ण-शिक्षा इत्यादयः योजनाः प्रस्ताविताः। स्नातकात् पीएचडी-पर्यन्तं शिक्षार्थिभ्यः २० लक्ष-रुप्यकपर्यन्तं ऋण-समर्थनम् अपि वचनम् अस्ति।

अतिरिक्तं नशामुक्त-तमिलनाडु, सार्वभौम-स्वास्थ्य-बीमा (२५ लक्ष-रुप्यकपर्यन्तम्), बेरोजगार-युवभ्यः मासिक-वृत्तिः, उद्यम-स्थापनाय ऋण-योजना तथा कृषकाणां ऋण-समाप्तिः इत्यादयः अपि घोषणापत्रे उल्लिखिताः सन्ति। तमिलनाडु-विधानसभा-निर्वाचनाय मतदानं २३ अप्रैल-मासे भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता