संयुक्त राष्ट्रम् ईरानाय 100 कोटिरुप्यकाणां मानवीयसहायतासहमतिः कृता
न्यूयॉर्कम्/तेहरानम्, 16 अप्रैलमासः (हि.स.)।संयुक्त राष्ट्र द्वारा युद्ध-प्रभावित-ईरानदेशस्य कृते आपत्कालीन-मानवीय-सहायताया संयुक्त-राष्ट्र-सङ्घः युद्ध-प्रभावितस्य ईरानदेशस्य कृते द्वादश-मिलियन-डॉलर-परिमितां (प्रायः शत-कोटि-रूप्यक-परिमाणां) आपत्का
संयुक्त राष्ट्रम् ईरानाय 100 कोटिरुप्यकाणां मानवीयसहायतासहमतिः कृता


न्यूयॉर्कम्/तेहरानम्, 16 अप्रैलमासः (हि.स.)।संयुक्त राष्ट्र द्वारा युद्ध-प्रभावित-ईरानदेशस्य कृते आपत्कालीन-मानवीय-सहायताया

संयुक्त-राष्ट्र-सङ्घः युद्ध-प्रभावितस्य ईरानदेशस्य कृते द्वादश-मिलियन-डॉलर-परिमितां (प्रायः शत-कोटि-रूप्यक-परिमाणां) आपत्कालीन-मानवीय-सहायतां प्रदातुम् घोषणां कृतवान्। एषा सहायता देशे विकसमानानां दुष्परिस्थितीनां तथा नागरिकानां आवश्यकतानां विचारं कृत्वा प्रदीयते।

संयुक्त-राष्ट्र-सङ्घस्य राहत-प्रमुखः टॉम् फ्लेचर उक्तवान् यत् प्रायः चत्वारिंशत्-दिनपर्यन्तं चलितेन संघर्षेण सहस्रशः नागरिकाः मृताः सन्ति, तथा च आधारभूत-संरचनायाः महत् नुकसानं जातम्। अपरं स्वास्थ्य-सेवा, जल-आपूर्ति, विद्युत्-सेवा च इत्यादयः अत्यावश्यकाः सेवाः अपि गम्भीरतया प्रभाविताः सन्ति।

तेन उक्तं यत् एषः निधिः विविध-सहभागि-संस्थाभिः माध्यमेन भूमितले राहत-कार्याणि शीघ्रं कर्तुं साहाय्यं करिष्यति। अस्य अन्तर्गतं प्रभावित-जनान् प्रति भोजनं, चिकित्सासहाय्यं, स्वच्छ-जलम्, अन्याश्च आवश्यक-सेवाः प्रापयितुं विशेष-प्रयत्नः क्रियते।

संयुक्त-राष्ट्र-सङ्घस्य अनुसारं वर्तमान-परिस्थितौ बहवः जनाः विस्थापिताः सन्ति, येषां त्वरित-सहायता अत्यावश्यकाऽस्ति। अतः एषा आर्थिक-सहायता जीवन-रक्षक-रूपेण सिद्धा भवितुम् अर्हति।

मानवीय-संस्थाः वदन्ति यत् संघर्षस्य कारणेन परिस्थितयः निरन्तरं जटिलाः भवन्ति, तथा च यदि शीघ्रं स्थायी-समाधानं न लभ्यते, तर्हि एषः संकटः अधिकं गभीरं भवितुं शक्नोति।

-------------------

हिन्दुस्थान समाचार