Enter your Email Address to subscribe to our newsletters


गोरखपुरनगरम्, १६ अप्रैलमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् २०१७ वर्षात् अनन्तरं समये आरक्षक-नियुक्तिः, प्रशिक्षणं तथा अवस्थापना-सौविध्यानां विकासेन आरक्षककर्मिणां कार्यगतिः वर्धिता, येन प्रदेशे उत्तमं सुरक्षा-वातावरणं निर्मितं सुशासनस्य च आदर्शः स्थापितः। सः अवदत् यत् गत-नववर्षेषु २,१९,००० अधिकाः आरक्षक-कर्मिणः नियुक्ताः।
गुरुवासरे गोरखनाथ-मन्दिर-क्षेत्रस्य सुरक्षार्थं निर्मितयोः द्वयोः आधुनिक-सुरक्षा-भवनयोः उद्घाटन-समये सः उक्तवान् यत् सुरक्षा सुशासनस्य प्रथम-आवश्यकता अस्ति। पूर्वं नियुक्ति-प्रशिक्षण-अवस्थापना-विषये पर्याप्तं ध्यानं न आसीत्, किन्तु अधुना प्रशिक्षण-क्षमता ३,००० तः वर्धमाना ६०,००० पर्यन्तं प्राप्ता।मुख्यमन्त्रिणा उक्तं यत् पूर्वं आरक्षककर्मिभ्यः आवास-सुविधाः, बैरकाः च न आसन्, येन ते कठिनतया जीवनं यापयन्ति स्म। अधुना सर्वेषु आरक्षक-रेखासु आवास-व्यवस्था, बैरक-निर्माणं च कृतम्। थानासु अपि अपराधिनां निरोधाय आवश्यक-सुविधाः प्रदत्ताः, येन आरक्षकः अधुना सशक्ततया स्वकर्तव्यं निर्वहति, अपराधिनः पलायितुं न शक्नुवन्ति।
अस्मिन् अवसरे महापौरः डॉ.मङ्गलेश-श्रीवास्तवः, एमएलसी तथा भाजपायाः प्रदेश-उपाध्यक्षः डॉ.धर्मेन्द्र-सिंहः, विधायकाः विपिन-सिंहः, महेन्द्रपाल-सिंहः, प्रदीप-शुक्लः, सर्वन-निषादः, राज्य-परामर्शदाता अवनीश-अवस्थी, एडीजी-गोरखपुर-क्षेत्रस्य मुथा-अशोक-जैनः, एडीजी-सुरक्षा तरुण-गाबा, जनपदाध्यक्षः जनार्दन-तिवारी, महानगर-संयोजकः राजेश-गुप्तः इत्यादयः प्रमुखतया उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता