Enter your Email Address to subscribe to our newsletters

खड़गपुरम्, 16 अप्रैलमासः (हि. स.)। भारतीय-प्रौद्योगिकी-संस्थानस्य खड़गपुर-इत्यस्य भूविज्ञान-भूभौतिकी-विभागस्य तथा पर्यावरण-विज्ञान-अभियांत्रिकी-विद्यालयस्य प्राध्यापकः अभिजीतमुखर्जी अन्तरराष्ट्रीय-स्तरे प्रतिष्ठितेन भूजल-उत्कृष्टता-पुरस्कारेण सम्मानितः अभवत्। अयं पुरस्कारः अन्तरराष्ट्रीय-जल-भूविज्ञानी-संघस्य भारतीय-राष्ट्रिय-अध्यायेन प्रदत्तः।
आईआईटी-खड़गपुर-संस्थया गुरुवासरे उक्तं यत् अयं सम्मानः प्रतिवर्षं भूजल-अनुसन्धान-क्षेत्रे उत्कृष्टं उल्लेखनीयं च योगदानं कुर्वन्तं वैज्ञानिकं प्रति प्रदीयते।
यूनाइटेड-किंगडम्-स्थितः अन्ताराष्ट्रिय-जल-भूविज्ञानी-संघः १३५ अधिक-देशेषु सक्रियानां भूजल-विशेषज्ञानां विश्वस्य सर्वात् बृहत् संगठनम् इति मन्यते। तस्य भारतीय-राष्ट्रीय-अध्यायेन प्रतिवर्षं भूजल-विज्ञान-क्षेत्रे विशिष्टं कार्यं कृतवन्तं कञ्चन वैज्ञानिकं चयन्य तस्मै एषः प्रतिष्ठितः पुरस्कारः प्रदीयते।
संघस्य भारतीय-अध्यायस्य अध्यक्षः, यः एशिया-प्रदेशस्य उपाध्यक्षः अपि अस्ति, त्रि-सदस्यीय-निर्णायक-मण्डलस्य अनुशंसया अयं पुरस्कारः प्रदत्तवान्। प्रशस्ति-पत्रे प्राध्यापकस्य मुखर्जेः भूजल-विज्ञानस्य तथा तस्य सतत-प्रबन्धन-क्षेत्रे दीर्घकालिकं उल्लेखनीयं च योगदानं विशेषतः प्रशंसितम्।
प्राध्यापकः मुखर्जी भूजल-प्रदूषण तथा पर्यावरणीय-स्थिरता-संबद्धेषु स्वेषु अग्रणी-अनुसन्धान-कार्येषु कारणेन अन्ताराष्ट्रिय-स्तरे विख्यातः अस्ति। तस्मै २०१४ वर्षे भारतस्य राष्ट्रपतिना प्रदत्तः राष्ट्रीय-भूविज्ञान-पुरस्कारः तथा २०२० वर्षे शान्ति-स्वरूप-भटनागर-पुरस्कारः सहिताः अनेकाः राष्ट्रीय-अन्ताराष्ट्रिय-पुरस्काराः प्राप्ताः सन्ति।
सः प्रथमः भारतीय-वैज्ञानिकः अस्ति यः जियोलॉजिकल-सोसायटी-ऑफ-अमेरिका तथा अमेरिकीय-भूभौतिकीय-संघ इत्येतयोः उभयोः अपि फेलो इति रूपेण चयनितः।
---------------
हिन्दुस्थान समाचार