Enter your Email Address to subscribe to our newsletters

जोधपुरनगरम्, १६ अप्रैलमासः (हि.स.)। भगवतः परशुरामस्य जयन्त्याः पावनावसरे सर्व-ब्राह्मण-महासभया जोधपुर-विभागेन सह परशुराम-महादेव-मन्दिरे १७–१९ अप्रैल-मासेषु त्रिदिवसीयः धार्मिक-सांस्कृतिक-कार्यक्रमः आयोज्यते।
कार्यक्रमस्य अन्तर्गतं पूजार्चना, सन्त-समागमः, भजन-सन्ध्या तथा सम्मान-समारोहः इत्यादयः विविधाः कार्यक्रमाः भविष्यन्ति। १७ अप्रैल-दिने गणपति-पूजनस्य अनन्तरं सन्त-समागमः, १८ अप्रैल-दिने भगवतः परशुरामस्य विग्रहस्य विशेषाभिषेकः (पञ्चामृत-क्षीरादिभिः) तथा वैदिक-मन्त्रैः सह रुद्राभिषेकः आयोज्यते, सायं भजन-सन्ध्या च भविष्यति।
१९ अप्रैल-दिने प्रातः विशेष-पूजा-अर्चना तथा सायं सम्मान-समारोहः भविष्यति, यस्मिन् विभिन्न-क्षेत्रेषु उत्कृष्ट-योगदानं कृतवन्तः व्यक्तयः “परशुराम-पुरस्कार-२०२६” तथा “जीवन-गौरव-पुरस्कारेण” सम्मानिताः भविष्यन्ति।
अस्मिन् अवसरे न्यायाधीशः संजीत-पुरोहितः मुख्यातिथिरूपेण, अन्ये विशिष्टातिथयः च उपस्थिताः भविष्यन्ति। उत्सवकाले मन्दिर-परिसरः अलंकार-दीपप्रकाशैः सज्जीकृतः भविष्यति, त्रिदिनपर्यन्तं धार्मिक-सांस्कृतिक-कार्यक्रमाः निरन्तरं प्रवर्तिष्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता