Enter your Email Address to subscribe to our newsletters

जोधपुरनगरम्, १६ अप्रैलमासः (हि.स.)। प्रधानमन्त्री-विश्वकर्मा-योजनायाः अन्तर्गतं जोधपुर-नगरे काष्ठ-फर्नीचर-क्लस्टर-मध्ये कार्यरत-श्रमिकाणां कृते पैकेजिङ्ग-इत्यस्य महत्त्वं तथा गुणवत्ता-नियन्त्रण-विषये कार्यशाला १७ अप्रैलमासे प्रातः १० वादने लघु-उद्योग-भारती-सभागारे आयोज्यते।
एषा कार्यशाला भारतीय-पैकेजिङ्ग-संस्थान-नवदिल्ली, सूक्ष्म-लघु-मध्यम-उद्यम-विकास-कार्यालय-जयपुर, जनपद-उद्योग-वाणिज्य-केन्द्र-जोधपुर तथा लघु-उद्योग-भारती-जोधपुर-नगरस्य संयुक्त-तत्त्वावधानेन आयोज्यते।
कार्यक्रमे जनपद-परिषदः मुख्य-कार्यकारी-अधिकारी आशीष-कुमार-मिश्रः मुख्यातिथिरूपेण उपस्थितः भविष्यति। भारतीय-पैकेजिङ्ग-संस्थानस्य उपनिदेशकः ऋषु-गौतमः पैकेजिङ्ग-इत्यस्य महत्त्वं, हस्तशिल्प-हस्तकरघा-उत्पादानां विक्रये तस्य भूमिकां च विस्तरेण विवेक्ष्यति, तथा ई-वाणिज्ये अपि तस्य उपयोगितां प्रकाशयिष्यति।
अतिरिक्तं, श्रमिकाणाम् उत्पादानां कृते विशेषतया निर्मिताः चतस्रः पैकेजिङ्ग-रूपरेखा-नमूनाः निःशुल्कं वितर्यन्ते। कार्यशालायां सूक्ष्म-लघु-मध्यम-उद्यम-विकास-कार्यालय-जयपुरस्य विशेषज्ञः अजय-शर्मा कृत्रिम-बुद्धिमत्ता (AI) तथा तस्य व्यावहारिक-प्रयोगान् विषये अपि सूचनां दास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता