जन समस्यानां त्वरित समाधानं करणीयम् अधिकारिभिः - मुख्यमंत्री याेगी
गोरखपुरम्, 17 अप्रैलमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथ गोरखपुर-प्रवासस्य द्वितीय-दिने शुक्रवासरे प्रातःकाले गोरखनाथ मंदिर जनतादर्शन-कार्यक्रमे जनैः सह मिलित्वा तेषां समस्याः अशृणोत्। जनतादर्शन-कार्यक्रमे उपस्थितान् जनान् प्रति मुख्यमन्त्र
मुख्यमंत्री ने लोगों को दिया भरोसा, हर समस्या का प्रभावी निस्तारण कराएगी सरकार*


गोरखपुरम्, 17 अप्रैलमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथ गोरखपुर-प्रवासस्य द्वितीय-दिने शुक्रवासरे प्रातःकाले गोरखनाथ मंदिर जनतादर्शन-कार्यक्रमे जनैः सह मिलित्वा तेषां समस्याः अशृणोत्।

जनतादर्शन-कार्यक्रमे उपस्थितान् जनान् प्रति मुख्यमन्त्री आश्वासनं दत्त्वा अवदत् यत् सरकारः भवतां प्रत्येकस्य समस्यायाः प्रभावी समाधानं सुनिश्चितं करिष्यति। शिकायतानां श्रवणानन्तरं तेन अधिकारिणः निर्देशिताः यत् जनसमस्यासु त्वरितं संवेदनशीलतां प्रदर्शयन्तु तथा च शीघ्रतया गुणवत्तापूर्णं संतोषजनकं समाधानं कुर्वन्तु।

शुक्रवासरे प्रातःकाले गोरखनाथ-मन्दिर-परिसरे महन्त-दिग्विजयनाथ-स्मृति-भवनस्य बहिः आयोजिते जनतादर्शन-कार्यक्रमे योगी-आदित्यनाथः प्रायः द्विशताधिकैः जनैः सह मिलितवान्। सः स्वयमेव तेषां समीपं गत्वा प्रार्थना-पत्राणि स्वहस्तेन गृहित्वा तेषामवलोकनं कृतवान्। विभिन्न-विषयसम्बद्धानां समस्याणां निवारणार्थं तेन सम्बन्धित-प्रशासनिक-पुलिस-अधिकारिणः प्रति प्रार्थना-पत्राणि प्रेषितानि, तथा च निर्देशितं यत् सर्वासां समस्याणां निस्तारणं समयबद्धं, निष्पक्षं संतोषजनकं च भवेत्।

जनतादर्शने अन्यदा इव अस्मिन् दिने अपि केचन जनाः चिकित्सार्थं आर्थिक-सहायतां याचितवन्तः। मुख्यमन्त्री तान् आश्वासितवान् यत् धनाभावात् कस्यापि उपचारः न स्थगितः भविष्यति। तेन अधिकारिणः निर्देशिताः यत् ये केऽपि आवश्यकतावन्तः सन्ति, तेषां उच्चस्तरीय-चिकित्सायाः अनुमानपत्रं शीघ्रं निर्माप्य उपस्थाप्यताम्; ततः अनन्तरं सरकारः वित्तसहायतां प्रदास्यति।

केचन महिलाः अपि आवास-समस्यां निवेदितवन्त्यः। अस्मिन् विषये योगी-आदित्यनाथः ताः आश्वासितवान् यत् सरकारः प्रत्येकं आवश्यकतावन्तं जनं प्रधानमंत्री आवास योजना अथवा मुख्यमंत्री-आवास-योजनाया अन्तर्गतं दृढंगृहम् प्रदातुं संकल्पिता अस्ति। तेन अधिकारिणः अपि निर्देशिताः यत् ये पात्राः जनाः अद्यापि अस्य सुविधायाः लाभात् वञ्चिताः सन्ति, तेभ्यः शीघ्रं लाभः प्रदीयताम्।।

--------------

हिन्दुस्थान समाचार