Enter your Email Address to subscribe to our newsletters

रायपुरम्, 17 अप्रैलमासः (हि.स.)।
छत्तीसगढ-शासनस्य जलसंसाधन-विभागेन दन्तेवाडा-जिलान्तर्गत-गीदम-विकासखण्डे स्थिते बृहत् कारंली एनीकटे तटरक्षणकार्याय ४ कोटि ९७ लक्ष ६५ सहस्र रूप्यकाणि अनुमोदितानि सन्ति। अस्य योजनायाः अन्तर्गतं वामतटे ३३० मीटर तथा दक्षिणतटे २५० मीटर, कुलं ५८० मीटरपर्यन्तं तटरक्षणकार्यं क्रियते। एनीकट-तटरक्षणकार्यस्य सम्पादनार्थं मुख्य-अभियन्ता गोदावरी-कच्छार-जलसंसाधन-विभागः जगदलपुरे प्रशासकीय-अनुमतिः प्रदत्ता अस्ति।
---------------
हिन्दुस्थान समाचार