Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, १७ अप्रैलमासः (हि.स.)। मध्यप्रदेश-सर्वकारेण सञ्चाल्यमानं आजीविका-अभियानं ग्रामीण-क्षेत्रेषु महिलानां जीवने सकारात्मक-परिवर्तनं जनयति। अस्य अभियानस्य अन्तर्गतं स्व-सहायता-समूहानां गठनं कृत्वा महिलाः स्वरोजगारेण संयोज्यन्ते। प्रशिक्षणेन, वित्तीय-सहायतया तथा बाजार-संयोजनेन महिलाः अधुना स्व-पादयोः स्थिताः सन्ति।
रायसेन-जनपदस्य सांची-विकासखण्डस्य रतनपुर-गिरधारी-ग्राम-निवासिनी सरूपी-मीणा आजीविका-मिशनेन संयोजिता अधुना आर्थिकरूपेण न केवलं आत्मनिर्भरा भवति, अपितु क्षेत्रस्य अन्यासां महिलानां कृते प्रेरणा-स्रोतः अपि अभवत्। सरूपी-मीणया सांची-क्षेत्रे ‘रूरल-मार्ट’ इत्यस्य सञ्चालनं क्रियते। तेन सह “ड्रोन-दीदी इति नाम्ना अपि तस्या विशेष: परिचय: निर्मित: अस्ति।
आजीविका-अभियानेन प्राप्तं परिचयं, ड्रोन-प्रौद्योगिक्या वर्धिता आयःसरूपी-मीणायाः परिश्रम-निष्ठया तस्यै सांची-क्षेत्रे ‘रूरल-मार्ट’ सञ्चालनस्य अवसरः प्राप्तः। सा तत्र दीदी-समूहानां उत्पादानां विक्रयं अन्यसामग्रीणां विक्रयं च करोति। अतिरिक्तं च तस्या वर्षे २०२३-२४ मध्ये “नमो-ड्रोन-योजना” इत्यस्य लाभः अपि प्राप्तः। सा उक्तवती यत् चयनानन्तरं तस्यै ग्वालियर-नगरे ड्रोन-सञ्चालनस्य प्रशिक्षणं प्रदत्तम्। ततः अनन्तरं तस्यै निःशुल्कं ड्रोन-यन्त्रम् अपि दत्तम्। कम्पनी-इञ्जिनियरैः अपि तस्यै पूर्णं प्रशिक्षणं प्रदत्तम्। ततः सा क्षेत्रेषु ड्रोन-द्वारा कीटनाशक-छिडकाव-कार्यं आरब्धवती। एतेन तस्या प्रतिवर्षं प्रायः त्रि-लक्ष-रूप्यकाणां आयः भवति।
सरूपी-मीणा प्रधानमन्त्रिणं नरेन्द्र-मोदीं तथा मुख्यमन्त्रीं डॉ.मोहन-यादवं प्रति धन्यवादं व्यक्तयन्ती वदति यत् आजीविका-अभियानं महिलानां आर्थिक-आत्मनिर्भरता-साधने महत्त्वपूर्णां भूमिकां निर्वहति। अस्य फलतः महिलाः न केवलं आत्मनिर्भराः भवन्ति, अपितु समाजे तासां मान-सम्मानम् अपि वर्धितम् अस्ति।
हिन्दुस्थान समाचार / Divya Ranjan