दिल्ल्याः मुख्यमंत्री 200 नूतनेभ्यःइलेक्ट्रिक बसयानेभ्यो हरितध्वजं दर्शितवान्
नवदिल्ली, 17 अप्रैलमासः (हि.स.)।दिल्लीनगरस्य मुख्यमन्त्री रेखागुप्ता शुक्रवासरे द्विशतं नूतनानां विद्युत्-बसयानानां तथा दिल्ली-रोहतक-अन्तर्राज्यीय-बससेवायाः ईस्ट-विनोद-नगर-डिपोमध्ये आयोजिते कार्यक्रमे हरितध्वजेन उद्घाटनं कृतवती। तेन सह सा मदनपुर-खा
ईस्ट विनोद नगर डिपो में आयोजित कार्यक्रम में  200 नई ईवी बसों और दिल्ली-रोहतक बस सेवा को हरी झंडी दिखाती दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 17 अप्रैलमासः (हि.स.)।दिल्लीनगरस्य मुख्यमन्त्री रेखागुप्ता शुक्रवासरे द्विशतं नूतनानां विद्युत्-बसयानानां तथा दिल्ली-रोहतक-अन्तर्राज्यीय-बससेवायाः ईस्ट-विनोद-नगर-डिपोमध्ये आयोजिते कार्यक्रमे हरितध्वजेन उद्घाटनं कृतवती। तेन सह सा मदनपुर-खादर-प्रदेशे नूतनस्य बस-टर्मिनलस्य लोकार्पणम् अपि अकरोत्। मुख्यमन्त्री डीटीसी ईस्ट-विनोद-नगर-डिपोमध्ये नूतनस्य प्रशासनिक-भवनस्य उद्घाटनम् अपि कृतवती। अस्मिन् अवसरॆ दिल्ली-परिवहनमन्त्री डॉ पंकजकुमारसिंह उपस्थितः आसीत्।

मुख्यमन्त्री उक्तवती यत् राजधानीं हरितां स्मार्ट् स्वच्छां च कर्तुं सरकारः निरन्तरं प्रयासान् करोति। अस्याः क्रमस्य अन्तर्गतं अद्य द्विशतं नूतनानां विद्युत्-बसयानानां संवर्धनेन डीटीसी-समूहस्य बसयानसंख्या प्रायः ६३०० पर्यन्तं वर्धिता अस्ति। दिल्लीनगरे प्रदूषणमुक्त-सार्वजनिक-परिवहनस्य दिशि एषः अन्यः महत्त्वपूर्णः चरणः अस्ति यतः ईस्ट-विनोद-नगर-डिपोतः द्विशतं ईवी-बसयानानि जनसेवायै समर्पितानि सन्ति।

मुख्यमन्त्री पुनः उक्तवती यत् अस्याः सरकारस्य लक्ष्यं मिशन-रीत्या दिल्ली-नगरस्य सार्वजनिक-परिवहनं पूर्णतया विद्युत्-आधारितं कर्तुम् अस्ति। दिल्लीनगरॆ विद्युत्-बसयानानां संख्या ४५०० अधिका जाता अस्ति तथा २०२६-वर्षस्य अन्ते ७००० पर्यन्तं नयितुं लक्ष्यं निर्धारितम् अस्ति।

उल्लेखनीयम् अस्ति यत् दिल्लीतः रोहतक-मार्गः आईएसबीटी-कश्मीरी-गेट तथा पीरागढ़ी-चौक मार्गेण गच्छति, यस्मिन् टिकरी-सीमा बहादुरगढ़ रोहद सांपला रोहतक-बस-स्थानकं च प्रमुख-विराम-स्थानानि सन्ति।

---------------

हिन्दुस्थान समाचार