Enter your Email Address to subscribe to our newsletters

पटना, 17 अप्रैलमासः (हि.स.)। विश्वस्य महत्तमेषु प्रशासनिक-सांख्यिकीय-अभियानेषु एकः ‘भारतस्य जनगणना-२०२७’ नामकः अभियानः अद्य अपओ-सचिवालयात् मुख्यमन्त्रिणा समर्थ चौधरी माउस-क्लिक-क्रियया विधिवत् प्रारब्धः। अस्मिन् अवसरॆ मुख्यमन्त्री सम्राटचौधरी राज्यवासिनः जनगणना-प्रक्रियायां सक्रियया उत्साहपूर्णया च सहभागितां कर्तुं आह्वानं कृतवान्।
मुख्यमन्त्री उक्तवान् यत् जनगणना सुशासनस्य आधारशिला अस्ति, या आगामिषु वर्षेषु विकास-योजनानां नीतिनां कल्याणकारी-कार्यक्रमाणां च निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। ‘जनगणना-२०२७’ तकनीकीदृष्ट्या ऐतिहासिकी पहल अस्ति, यस्मिन् प्रथमवारं पूर्णतया डिजिटल-डाटा-संग्रहणं तथा स्व-गणना-सुविधा १७ अप्रैल २०२६ तः ०१ मई २०२६ पर्यन्तं उपलब्धा भविष्यति।
सः अवदत् यत् राज्ये जनगणना-२०२७ इत्यस्य प्रथम-चरणे गृह-सूचीकरणं तथा गृहनां गणना ०२ मई २०२६ तः ३१ मई २०२६ पर्यन्तं क्रियते।
मुख्यमन्त्री सर्वान् नागरिकान् प्रति आवाहनं कृतवान् यत् ते अस्मिन् राष्ट्रिय-महत्त्वयुक्ते अभियाने उत्साहेन सहभागं कुर्वन्तु। स्व-गणना-प्रणाल्या अथवा प्रगणकेभ्यः सहयोगं दत्त्वा सटीकां समावेशिनीं विश्वसनीयां च जनगणनां सम्पन्नां कर्तुं स्व-योगदानं ददतु। ‘जनगणना-२०२७’ बिहारस्य देशस्य च उज्ज्वल-भविष्यस्य दिशि दृढं आधारं निर्मास्यति।।
---------------
हिन्दुस्थान समाचार