पारम्परिक‘आमा-जोगानी’-देव-पूजनात् पूर्वं आम्र-भक्षणं वर्जितं भवति
कोंडागांवनगरम्, १७ अप्रैलमासः (हि.स.)। बस्तर-सम्भागे च सर्वत्र चैत्र-मासे ‘आमा-जोगानी’-देव-पूजन-कार्यक्रमः सोत्साहेन आयोज्यते। अयं पर्व आदिवासी-संस्कृतेः परम्पराणां च महत्त्वपूर्णः अङ्गः अस्ति, यः प्रकृतेः, पितॄणां, ग्राम-देवताः च प्रति श्रद्धां प्
पारंपरिक 'आमा जोगानी' पर्व से पूर्व आम का सेवन हाेता है वर्जित


कोंडागांवनगरम्, १७ अप्रैलमासः (हि.स.)। बस्तर-सम्भागे च सर्वत्र चैत्र-मासे ‘आमा-जोगानी’-देव-पूजन-कार्यक्रमः सोत्साहेन आयोज्यते। अयं पर्व आदिवासी-संस्कृतेः परम्पराणां च महत्त्वपूर्णः अङ्गः अस्ति, यः प्रकृतेः, पितॄणां, ग्राम-देवताः च प्रति श्रद्धां प्रकटयति। कोंडागांव-जनपदस्य विभिन्नेषु ग्रामेषु अयं उत्सवः विधि-विधानपूर्वकं सम्पन्नः भवति। ‘आमा-जोगानी’ मूलतः नव-आम्र-फलस्य आगमनसम्बद्धः पारम्परिकः उत्सवः अस्ति। बस्तर-प्रदेशस्य मान्यतानुसारं यावत् एषा पूजा विधिपूर्वकं न सम्पद्यते, तावत् नव-आम्रस्य भक्षणं वर्जितं भवति।

अयं उत्सवः प्रकृतेः देवताः च प्रति नव-आम्र-फलस्य समर्पणेन तेषां अनुमतिं याचितुं प्राचीन-परम्परा अस्ति। स्थानीय-ग्रामिणानां कथनानुसारं अस्य उत्सवस्य आरम्भः ‘बूढ़ा-देव-कोट’ इत्यस्मात् भवति। तत्रतः देवतानां गाथा (पारम्परिक-प्रतीकः) ‘डोबरा’ (तालाब) पर्यन्तं नीयते। ‘डोबरा’-स्थले ‘आंगा-देव’ साक्षिणं कृत्वा पारम्परिक-रीतिभिः पूजार्चना क्रियते। पूजाकाले पुष्पाणि, तण्डुलाः, लाली (सिन्दूरः), कुमकुमं च उपयुज्य देवतानां सेवा क्रियते। ततः परं ‘बूढ़ा-देव’ तथा ‘आंगा-देव’ इत्येतयोः पवित्र-स्नानं क्रियते, यत् शुद्धेः नवजीवनस्य च प्रतीकं मन्यते।

अस्य उत्सवस्य एकः महत्त्वपूर्णम् अनुष्ठानं पितॄणां आत्मनां शान्त्यर्थं क्रियते। येषां जनानां देहावसानं जातम्, तेषां कृते ‘डुमनी’-माध्यमेन ‘डोबरा’-तडागात् जलं आनय्यते। प्रतीकात्मक-रूपेण पितॄणः नूतन-मृत्तिका-घटे स्थाप्यन्ते। अनन्तरं एषः घटः ‘देव-कोट’ मार्गेण ‘आंगा-देव’ तथा ‘गुटाल-देव’ पर्यन्तं नीयते, यत्र पितॄणां विधिवत् पूजनं क्रियते। एषा परम्परा पूर्वजानां सम्मानस्य तेषां आशीर्वाद-प्राप्तेः च प्रतीका मन्यते।

सर्वासां पूजार्चनानां सम्पन्नतायाः अनन्तरमेव नव-आम्रस्य छेदनं तस्य भोजनार्थं उपयोगः च अनुमन्यते। अयं उत्सवः प्रकृतेः प्रति कृतज्ञतां सामुदायिक-सौहार्दस्य सन्देशं च वहति।

हिन्दुस्थान समाचार / अंशु गुप्ता