Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 अप्रैलमासः (हि.स.)।
राज्यसभायां शुक्रवासरे हरिवंश निरन्तरं तृतीयवारं उपसभापतिरूपेण निर्वाचितः। विपक्षपक्षेण कश्चन अपि प्रत्याशी न स्थाप्यते स्म, अतः तस्य निर्वाचनं निर्विरोधतया अभवत्। एतेन सः अस्मिन् पदे निरन्तरं तृतीयवारम् आसीनः सदस्यः अभवत्।
सदनस्य कार्यवाह्याः आरम्भे नेता-सदनः जगत प्रकाश नड्डा तथा विपक्षनेता मल्लिकार्जुन खरगे तम् आसनपर्यन्तं नीतवन्तौ उपसभापतिस्थाने उपवेशितवन्तौ च।
प्रधानमन्त्री नरेन्द्र मोदी हरिवंशं पुनर्निर्वाचनस्य अभिनन्दनं कृत्वा उच्चसदनस्य संचालनकार्ये तस्य अनुभवस्य योगदानस्य च प्रशंसां कृतवान्।
विपक्षनेता मल्लिकार्जुन खरगे अपि तस्मै शुभाशंसाः दत्त्वा आशां व्यक्तवान् यत् सः सदने सर्वेषां पक्षाणां कृते समानं अवसरं दास्यति। तेन अस्मिन् अवसरे लोकसभायां उपाध्यक्षपदस्य दीर्घकालात् रिक्ततायाः विषयः अपि उद्घाटितः। सः अवदत् यत् २०१९ वर्षात् आरभ्य एतत् संवैधानिकपदं रिक्तं वर्तते, यत् लोकतान्त्रिक-परम्पराणां विरुद्धम् अस्ति।
तेन आशा व्यक्ता यत् उपसभापतिरूपेण हरिवंशः विपक्षाय पर्याप्तं समयं सम्मानं च दास्यति। विपक्षपक्षेण तस्मै सफलकार्यकालाय शुभकामनाः दत्ताः, तथा च उक्तं यत् सदनस्य गरिमां रक्षितुं तस्य भूमिका अत्यन्तं महत्त्वपूर्णा भविष्यति।
---------------
हिन्दुस्थान समाचार