Enter your Email Address to subscribe to our newsletters

धर्मशालानगरम्, १७ अप्रैलमासः (हि.स.)। कांगड़ा-जनपदस्य शाहपुर-स्थे राजकीय-औद्योगिक-प्रशिक्षण-संस्थाने (आईटीआई) १० कोटि-रूप्यक-व्ययेन नूतनम् अत्याधुनिक-कार्यशाला-भवनं निर्मीयते इति सूचना केवलसिंह-पठानिया-महाभागेन दत्ता। सः शुक्रवासरे ४३ लक्ष-रूप्यक-व्ययेन निर्मितस्य ड्राफ्ट्समैन-व्यवसायस्य कौशल-प्रशिक्षकाणां प्रशिक्षण-कार्यशाला-भवनस्य लोकार्पणानन्तरं जनसमूहम् उद्दिश्य उक्तवान्।
तेन उक्तं यत् वर्तमान-सर्वकारस्य कार्यकाले अस्मिन् संस्थाने यन्त्रसामग्री-नवोन्मेष-विकास-कार्येषु च प्रायः ४ कोटि-रूप्यकाणि व्ययितानि सन्ति। अस्य कृते सः मुख्यमन्त्रिणं तथा तकनीकी-शिक्षा-मन्त्रीं राजेश धर्मान् प्रति कृतज्ञतां प्रकट्य उक्तवान् यत् तयोः मार्गदर्शनेन एतत् सम्भवम् अभवत्।
विधायकः अवदत् यत् नूतन-शैक्षणिक-सत्रात् आरभ्य अस्मिन् आईटीआई-संस्थाने ‘डेयरी-टेक्नोलॉजी’ इत्यस्य पाठ्यक्रमः अपि आरभ्यते, येन क्षेत्रस्य युवभ्यः रोजगारपरक-शिक्षायाः नूतनाः अवसराः लभ्यन्ते। अपरं च आईटीआई-आईएमसी-माध्यमेन राजमार्गस्य समीपे २० आपणेषु निर्माण-योजना अपि शीघ्रं सम्पन्ना भविष्यति।
अस्मिन् अवसरे एव तेन शाहपुर-नगर-पञ्चायतायै प्रायः २३.५० लक्ष-रूप्यक-व्ययेन क्रीताः द्वे अपशिष्ट-सङ्ग्रहण-यानि प्रेषितानि। तथा च २५ नल-जल-कर्मिभ्यः प्रशिक्षण-समाप्तौ प्रमाणपत्राणि अपि वितरितानि।
तेन अपि सूचितं यत् वर्तमान-सर्वकारस्य कार्यकाले शाहपुर-नगर-पञ्चायतस्य विविध-विकास-कार्येषु १२.७३ कोटि-रूप्यकाणि व्ययितानि सन्ति।
कार्यक्रमे आईटीआई-प्रधानाचार्यः चैनसिंह-संस्थानस्य गतिविधिनां विस्तृतां सूचनां दत्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता