प्रधानमंत्री मोदी हरिवंशं तृतीयवारम् उपसभापतिं शुभकामना दत्ता, अनुभवः कार्यशैली च प्रशंसिते
नवदिल्ली, 17 अप्रैलमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे राज्यसभायाः उपसभापतेः रूपेण हरिवंश महोदयस्य तृतीयवारं निरन्तरनिर्वाचनस्य निमित्तं तं अभिनन्दितवान्, तत् च सदनस्य गाढविश्वासस्य प्रतीकमिति उक्तवान्। राज्यसभायां स्वीयसम्बोधने प्र
प्रधानमंत्री नरेन्द्र मोदी शुक्रवार को राज्यसभा में संबोधित करते हुए


नवदिल्ली, 17 अप्रैलमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे राज्यसभायाः उपसभापतेः रूपेण हरिवंश महोदयस्य तृतीयवारं निरन्तरनिर्वाचनस्य निमित्तं तं अभिनन्दितवान्, तत् च सदनस्य गाढविश्वासस्य प्रतीकमिति उक्तवान्। राज्यसभायां स्वीयसम्बोधने प्रधानमन्त्री उक्तवान् यत् हरिवंशमहोदयस्य पुनर्निर्वाचनं तस्य अनुभवस्य, सम्यक्-सन्तुलितकार्यशैल्याः तथा सर्वान् सह नेतुं तस्य क्षमतायाः स्वीकृतिरिति।

तेन उक्तं यत् उपसभापतेः रूपेण हरिवंशः न केवलं सदनस्य कार्यवाहीं कुशलतया सञ्चालितवान्, अपि तु स्वपूर्वानुभवैः सदनं समृद्धं कृतवान्, येन सदनस्य वातावरणम् अधिकं परिपक्वं जातम्। मोदी उक्तवान्— “राज्यसभायाः उपसभापतेः रूपेण तृतीयवारं निर्वाचितो भवतः प्रति अस्य सदनस्य गाढविश्वासं दर्शयति। अतीतकालखण्डे भवतः अनुभवेन सदनाय यः लाभः प्राप्तः, तस्यापि एषः प्रमाणम्। सदनं सह नेतुं भवतः यः प्रयासः आसीत्, तस्मिन् सदनेन स्वीकृतिमुद्रा दत्ता। एतत् वास्तवमेव भवतः अनुभवस्य योगदानस्य च सम्मानः अस्ति।”

प्रधानमन्त्री विश्वासं व्यक्तवान् यत् तस्य नूतनकार्यकालोऽपि समर्पणेन, सन्तुलेन तथा गरिमया सह अग्रे गमिष्यति, तथा च सदनं नूतनाः उन्नतयः प्राप्स्यति। तेन उक्तं यत् हरिवंशः राज्यसभा-सदस्यत्वं प्राप्य स्वस्य अधिकांशकालं संसदीयकार्येषु समर्पितवान्, सभापतेः अनुपस्थितौ च सः कुशलतया सदनं सञ्चालितवान्।

तेन हरिवंशस्य सार्वजनिकजीवने पत्रकारितायां च योगदानं प्रशंसितम्। तस्य कार्यशैल्यां स्पष्टता, विनयः, शालीनता च दृश्यते इति उक्तम्। विधानसभानां विधानपरिषदां च अधिकाऱिणां प्रशिक्षणे तस्य योगदानं महत्त्वपूर्णम् इति अपि उक्तम्।

मोदी विश्वासं व्यक्तवान् यत् एकविंशतिशताब्द्याः अस्य द्वितीयचतुर्थांशे अस्य सदनस्य महत् कार्यं कर्तव्यम् अस्ति। राष्ट्रस्य प्रगतेः मार्गे तथा विकासलक्ष्यस्य प्राप्तौ सदनस्य महत्त्वपूर्णं योगदानं भविष्यति इति सः अवदत्। अतः पीठाधीशेन सह सर्वेषां दायित्वं महदिति उक्तम्।

प्रधानमन्त्री उक्तवान् यत् 2018 वर्षात् आरभ्य अद्यपर्यन्तं हरिवंशः देशस्य विभिन्नेषु महाविद्यालयेषु विश्वविद्यालयेषु च 350 अधिकेषु कार्यक्रमेषु सहभागिता कृतवान्, येन युवभिः सह तस्य निरन्तरसंवादः प्रदर्श्यते। तेन उक्तं यत् हरिवंशः मगधविश्वविद्यालये कृत्रिमबुद्धिमत्ता केन्द्रस्य स्थापने सहयोगं कृतवान्, सांसदनिधेः उपयोगे आदर्शं प्रस्तुतवान् च।

तथैव गङ्गा-घाघरा-नद्योर् मध्ये स्थितेषु क्षेत्रेषु कटावसमस्यायाः समाधानाय नदी-अनुसन्धानकेन्द्रस्य स्थापनां अपि प्रधानमन्त्री प्रशंसितवान्। स्वीयसम्बोधने प्रधानमन्त्री चंद्रशेखर पूर्वप्रधानमन्त्रिणः जन्मदिवसम् अपि उल्लिखितवान्, हरिवंशस्य तेन सह गाढसम्बन्धः आसीत् इति उक्त्वा, तस्यैव दिने तस्य तृतीयवारं अस्मिन् पदे प्रतिष्ठापनं विशेषसंयोगः इति निरूपितवान्।

---------------

हिन्दुस्थान समाचार