Enter your Email Address to subscribe to our newsletters



- मुख्यमंत्री डॉ. यादवः आदि शंकराचार्यस्य प्रकटोत्सव एकात्म पर्वणः कृतः शुभारंभःभोपालम्, 17 अप्रैलमासः (हि.स.)। मोहन यादवः उक्तवान् यत् अद्वैतज्ञानस्य सूर्योदयकेन्द्रम् ओंकारेश्वरक्षेत्रस्य चेतनाया अनुभूति अद्य सर्वेभ्यः भवति। ज्ञानध्यानयोः भूमिः मध्यप्रदेशः ऐतिहासिकरूपेण धर्मसंस्कृत्याः आध्यात्मिकऊर्जायाः च प्रसारणं कृतवान् अस्ति, यस्य प्रमाणानि सर्वेषु युगेषु दृश्यन्ते।
मुख्यमन्त्री डॉ यादवः शुक्रवासरे खण्डवा-जिले स्थिते ओंकारेश्वरस्य एकात्मधामे आयोजितस्य पञ्चदिवसीयप्रकटोत्सवस्य उद्घाटनसत्रे सम्बोधनं कुर्वन् आसीत्। अस्मिन् कार्यक्रमे द्वारकाशारदापीठस्य जगद्गुरुः शंकराचार्यः स्वामी सदानन्दसरस्वती, विवेकानन्दकेन्द्रस्य उपाध्यक्ष पद्मश्री निवेदिता भिडे, स्वामी शारदानन्दसरस्वती इत्यादयः सन्तः उपस्थिताः आसन्। राज्यसरकारस्य संस्कृतिविभागेन आचार्यशंकरसांस्कृतिकएकतान्यासेन च सहकार्येण १७–२१ अप्रैलपर्यन्तं अयं एकात्मपर्व उत्सवरूपेण आचर्यते।
मुख्यमन्त्री उक्तवान् यत् मध्यप्रदेशस्य भूमिः वास्तवमेव ज्ञानस्य आध्यात्मस्य च केन्द्रम् अस्ति। भगवान् रामः वनवासकाले मन्दाकिनीतीरे चित्रकूटं गतवान्, यस्य अनन्तरं तस्य जीवनं सर्वमानवजातये पूजनीयम् अभवत्। तथैव भगवान् कृष्णः कंसवधानन्तरं उज्जयिन्यां सांदीपनिआश्रमं गत्वा शिक्षां प्राप्य कर्मवादस्य सन्देशं दत्तवान्।
सनातनकाले केरलप्रदेशस्य कालडिग्रामात् आगतः अष्टवर्षीयः बालकः शंकरः ओंकारेश्वरं प्राप्य गुरोः गोविन्दपादस्य आशीर्वादेन आदि शंकराचार्यः अभवत्, येन सनातनधर्मस्य प्रवाहः अविरलतया प्रवर्तितः। तस्य दर्शनं भारतीयसंस्कृतेः आध्यात्मिकएकतायाः च आधारः अभवत्।
अनन्तरं दीपप्रज्वलनेन ‘एकात्मपर्व’ कार्यक्रमस्य शुभारम्भः कृतः। मुख्यमन्त्री अद्वैतलोकप्रदर्शनीम् उद्घाटितवान् तथा वैदिकअनुष्ठाने भागं गृहीतवान्। सः संस्कृतसेवाफाउण्डेशनपुणे इत्यस्य रोहनअच्युतकुलकर्णिना लिखितस्य “वेदान्तसिद्धान्तचन्द्रिका” इति ग्रन्थस्य विमोचनं कृतवान् तथा एकात्मधामस्य परियोजनासम्बद्धां वेबसाइटम् अपि उद्घाटितवान्। कार्यक्रमे एकात्मयात्रा तथा अद्वैतविषयकलघुचित्राणां प्रदर्शनम् अभवत्।
मुख्यमन्त्री उक्तवान् यत् नरेन्द्रमोदी-नेतृत्वे राज्यसरकारः सनातनसंस्कृतेः सिद्धान्तानुसारं सर्वेषां वर्गाणां कल्याणाय समर्पिता अस्ति। अयं पञ्चदिवसीयोत्सवः सन्तानां मनीषिणां विदुषां च माध्यमेन वैश्विकएकात्मसन्देशं प्रसारयिष्यति तथा नवपीढ्यः अद्वैतदर्शनेन सम्बद्धाः भविष्यन्ति।
द्वारकाशारदापीठस्य जगद्गुरुः स्वामी सदानन्दसरस्वती उक्तवान् यत् सर्वेषु प्राणिषु परमात्मदर्शनमेव एकात्मतायाः आधारः अस्ति। ब्रह्म भगवान् आत्मा च एकमेव अस्ति। सर्वेषु प्राणिषु स्थितस्य आत्मतत्त्वस्य ज्ञानमेव ऐक्यस्य मूलम्।
विवेकानन्दकेन्द्रस्य उपाध्यक्ष निवेदिता भिडे अपि उक्तवती यत् सर्वेषां आत्मा एक एव, शरीरं केवलं साधनम् अस्ति। मानवशरीरं एकात्मतायाः श्रेष्ठम् उदाहरणम् अस्ति। वेदेषु निर्दिष्टानि वैज्ञानिकतत्त्वानि अद्य विश्वेन अपि स्वीकृतानि भवन्ति।
आचार्यशंकरसांस्कृतिकएकतान्यासस्य प्रतिनिधिना उक्तं यत् ओंकारेश्वरे १०८ फुट उच्चा एकात्मप्रतिमा पूर्वमेव स्थापिताऽस्ति तथा अद्वैतलोकसंग्रहालयस्य निर्माणं प्रगतौ अस्ति। ओंकारेश्वरं वैश्विकएकात्मकेंद्ररूपेण विकसितुं प्रयत्नाः क्रियन्ते। भविष्ये २०२७ वर्षे आचार्यशंकरस्य जन्मस्थानात् एकात्मयात्रा अपि आरभ्यते।
अन्ते उक्तं यत् पञ्चदिवसीयोत्सवे वैचारिकसत्राणि सांस्कृतिककार्यक्रमाः वैदिकअनुष्ठानानि च आयोज्यन्ते। २१ अप्रैल दिने दीक्षासमारोहे देशविदेशेभ्यः आगताः ७०० अधिकाः युवानः ‘शंकरदूत’ इति रूपेण संकल्पं गृह्णन्ति। अद्वैतवेदान्तस्य समकालीनविषयेषु अपि विस्तृतसंवादः अस्मिन् उत्सवे प्रवर्तते।
------------------
हिन्दुस्थान समाचार