Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १७ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादव-महाभागः श्योपुर-जनपदस्य विजयपुर-थाना-क्षेत्रस्य खितरपाल-ग्रामे हलयन्त्र-परिवर्तनात् जातायां दुर्घटनायां महिलानां निधनं प्रति प्रगाढं दुःखं व्यक्तवान्।
मुख्यमन्त्री मोहनयादव-महाभागेन मृतानां परिजनानां कृते राज्य-सर्वकारस्य पक्षतः प्रति-व्यक्ति ४-४ लक्ष-रूप्यकाणां, गम्भीरतया आहतेभ्यः १-१ लक्ष-रूप्यकाणां, अन्येभ्यः आहतेभ्यः ५०-५० सहस्र-रूप्यकाणां च आर्थिक-सहायतां प्रदातुं निर्देशाः दत्ताः।
जनसम्पर्क-अधिकारी संदीपकपूरः अवदत् यत् मुख्यमन्त्री ईश्वरं प्रति दिवङ्गतानां आत्मनां शान्तये प्रार्थनां कृतवान्। तेन उक्तं यत् दुर्घटनायां ये आहताः सन्ति, तेषां समुचित-चिकित्सा क्रियते। सः आहतानां शीघ्र-स्वास्थ्य-लाभस्य अपि कामनां कृतवान्।
उल्लेखनीयम् अस्ति यत् श्योपुर-जनपदस्य विजयपुर-थाना-क्षेत्रान्तर्गत-खितरपाल-ग्रामे गुरुवासरे रात्रौ श्रद्धालुभिः पूर्णं हलयन्त्रम् अनियन्त्रितं भूत्वा परिवर्तितम्। अस्यां दुर्घटनायां चतस्रः महिलाः स्थले एव मृताः, अपरं च प्रायः २६ जनाः आहताः अभवन्, येषु केषाञ्चन अवस्था गम्भीरा इति कथ्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता