Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 17 अप्रैलमासः (हि.स.)।
ओडिशाराज्यस्य गौरवः, महान् जननायकः तथा पूर्वमुख्यमन्त्री बीजू पटनायक इत्यस्य पुण्यतिथौ विपक्षनेता नवीन पटनायक तस्मै श्रद्धांजलिं अर्पितवान्।
सामाजिक-माध्यमेषु प्रकाशिते स्वसन्देशे नवीन-पटनायकः अवदत् यत् बीजू-पटनायकः भारतस्य स्वातन्त्र्य-संग्रामे महत्वपूर्णां सशक्तां च भूमिकां निर्वहति स्म। तेन उक्तं यत् जनान् सशक्तीकृत्य सः पंचायती-राज-व्यवस्थां सुदृढीकर्तुं महत्त्वपूर्णं योगदानं दत्तवान्।
नवीन-पटनायकः अग्रे अवदत् यत् राजनीतिक्षेत्रे महिलानां कृते आरक्षणं, औद्योगिक-विकासः तथा ओडिया-स्वाभिमानस्य संरक्षणे बीजू-पटनायकस्य योगदानम् अतुलनीयम् अस्ति।
तेन एतदपि उक्तं यत् बीजू-पटनायकस्य सिद्धान्तैः आदर्शैः च प्रेरितः बीजू जनता दल ओडिशाराज्यस्य जनानां तथा राज्यस्य सेवायै सदा समर्पितः अस्ति।
---------------
हिन्दुस्थान समाचार