मातातीर्थ-अमावास्यायां नेपाल-देशस्य प्रधानमन्त्रिणः सन्देशः— “नेपाल-मातरं सदा हास्यमुखीं द्रष्टुम् इच्छामि”
काठमाण्डू-नगरम्, १७ अप्रैलमासः (हि.स.)। नेपाल-देशस्य प्रधानमन्त्री बालेन्द्र-शाहः मातातीर्थ-अमावास्यायाः अवसरॆ देशवासिभ्यः शुभाशंसाः प्रदत्तवान्। सः अवदत्— “नेपाल-मातरं सदा हास्यमुखीं द्रष्टुम् इच्छामि।” प्रधानमन्त्री शाहः “जननी जन्मभूमिश्च स्वर्ग
प्रधानमंत्री बालेन्द्र शाह


काठमाण्डू-नगरम्, १७ अप्रैलमासः (हि.स.)। नेपाल-देशस्य प्रधानमन्त्री बालेन्द्र-शाहः मातातीर्थ-अमावास्यायाः अवसरॆ देशवासिभ्यः शुभाशंसाः प्रदत्तवान्। सः अवदत्— “नेपाल-मातरं सदा हास्यमुखीं द्रष्टुम् इच्छामि।”

प्रधानमन्त्री शाहः “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति श्लोकं लिखित्वा उक्तवान् यत् माता मातृभूमिश्च स्वर्गात् अपि श्रेष्ठे स्तः। नेपाल-देशे मातातीर्थ-अमावास्या एव मातृ-दिवसः रूपेण मन्यते, यः वैशाख-कृष्ण-अमावास्यायां “आमा-को-मुख-हेर्ने-दिवसः” इति नाम्ना उत्सवेन आचर्यते।

अस्मिन् दिने जनाः प्रातःकाले उत्थाय मातॄणां पूजनं कुर्वन्ति, उपहारान् च ददति। ये जनाः स्वमातृभ्यः दूरस्थाः सन्ति, ते दूरभाष-वीडियो-संवादेन तासां दर्शनं कुर्वन्ति।

सः सामाजिक-माध्यमेषु अपि सन्देशं दत्त्वा उक्तवान्— “जीवनस्य प्रथमा गुरुः अनन्त-स्नेहस्य स्रोतश्च माता अस्ति। अद्य अहं सर्वासां मातॄणां तथा नेपाल-मातरः उज्ज्वल-मुखस्य कामनां करोमि। वयं स्वमातॄन् सदा हर्षयेम तथा ताः अस्माकं कर्मसु गर्वं अनुभवतु।”

हिन्दुस्थान समाचार / Divya Ranjan