Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, १७ अप्रैलमासः (हि.स.)। मंचे प्रसारिता शान्तता, आकाशे च तरङ्गमानः यक्ष-प्रश्नः—“किं मानवः केवलं शरीरम् अस्ति? यदि यन्त्रं तस्य शरीरस्य अनुकरणं करोति, तर्हि किं तत् अपि ‘मानवः’ इति कथ्यते?”- एतैः गम्भीरैः प्रश्नैः पंजाबी-नाटकं देही दर्शकान् आत्ममन्थनाय प्रेरितवान्।
उत्तर-मध्य-क्षेत्र-सांस्कृतिक-केंद्रस्य, संस्कृति-मन्त्रालयस्य (भारत-सर्वकारः) तथा चण्डीगढ़-संगीत-नाटक-अकादमी (सांस्कृतिक-कार्य-विभागः, चण्डीगढ़) इत्यनयोः संयुक्त-तत्त्वावधाने आयोजिते बैसाखी-महोत्सवे शुक्रवासरे देही-नाटकस्य मंचनं प्रयागराज-स्थले स्थिते सांस्कृतिक-केंद्र-प्रेक्षागृहे राजविंदर-समराला-निर्देशनायां सम्पन्नम्।
देही-नाटकं मानव-देहं केवलं शरीररूपेण न अपि तु संवेदना-स्मृति-इच्छा-मानव-सम्बन्धानां जीवित-भूमिरूपेण प्रस्तुतं करोति। यत्र प्रश्नः उत्थापितः— यदि यन्त्राणि मानव-बुद्धेः अनुकरणं कर्तुं शक्नुवन्ति, तर्हि किं तानि मानवीय-भावनाः अपि पूर्णतया पुनर्निर्मातुं समर्थानि स्युः? यदि देहः वस्तु-रूपं गृह्णाति, तर्हि प्रेम-परिचय-गरिमाणां किं भवति? इति।
कमलजीत-कौरः, ईशा-आहूजा, कोमलप्रीत-बंगा, अलका, वंश-जांगड़ा इत्यादयः कलाकाराः स्व-अभिनयेन पात्राणि जीवितवत् कृतवन्तः। प्रकाश-व्यवस्थायां उदयवीर-सिंहस्य तथा संगीत-क्षेत्रे वैभव-घेः योगदानं नाटकं अधिकं प्रभावशाली कृतवद् आसीत्।
ततः पूर्वं कार्यक्रमस्य शुभारम्भः मुख्यातिथिः कर्नल सी.एस.मेहता, गुरु-तेग-बहादुर-खालसा-गर्ल्स-इण्टर-महाविद्यालयस्य अध्यक्षः, केंद्र-निदेशकः सुदेश-शर्मा, डॉ.मुकेश-उपाध्यायः, कल्पना सहाय इत्यादिभिः दीप-प्रज्वलनेन कृतः। संचालनं आकाश-अग्रवालः अकरोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता