Enter your Email Address to subscribe to our newsletters

नवदेहली, 17 अप्रैलमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी अद्य पुनः एकवारं देशस्य मातृ-भगिनी-पुत्रीणां स्मरणं कृत्वा ताभ्यः आशीर्वादवर्षणस्य कृपां याचितवान्। प्रधानमन्त्री 'X' पटले साझाकृते सुभाषिते उक्तवान् यत्, ''अस्माकं नारीशक्तिः एकस्य सशक्तभारतस्य परिचयः अस्ति। अद्य देशस्य मातरः, भगिन्यः, पुत्र्यः च स्वकीयेन अटूटसङ्कल्पेन, निष्ठया, सेवाभावेन च प्रत्येकस्मिन् क्षेत्रे भारतवर्षस्य गौरवं वर्धयन्ति।''
सः श्रीदुर्गासप्तशत्याः चतुर्थाध्यायस्य (शक्रयादिस्तुतिः/शाकम्भरी स्तुतिः) श्लोकस्य उल्लेखं कृतवान् -
देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या।
तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः॥
अस्य श्लोकस्य व्याख्यां कुर्वन् सः अवदत् यत्, तया (देव्या) स्वशक्त्या एव अस्य ब्रह्माण्डस्य रचना कृता। सा सर्वेषां देवतानां शक्तीनां सामूहिकस्वरूपेण अवतरिता अस्ति।
प्रधानमन्त्री मोदी अलिखत् यत्, ''मातुः आराधना सर्वे देवाः महान्तः ऋषयः च समानरूपेण कुर्वन्ति, वयं च तस्याः सम्मुखे श्रद्धापूर्वकं नमामः। सा देवी अस्मासु स्वकीयं मङ्गलमयं आशीर्वादं वर्षतु।'' उल्लेखनीयं वर्तते यत् अयं श्लोकः देव्याः सर्वव्यापी-शक्तिस्वरूपायाः रूपस्य स्तुतिं करोति। अस्य स्तुत्या ज्ञानं, बलं, शक्तिः च प्राप्यते।
---------------
हिन्दुस्थान समाचार