‘पोषण-पखवाड़ा २०२६’-अन्तर्गतं मिजोरम-प्रदेशे सामुदायिक-सहभागिता तथा पोषण-जागरूकता-कार्यक्रमः आयोजितः
नवदिल्ली, १७ अप्रैलमासः (हि.स.)। राष्ट्रव्यापी ‘पोषण-पखवाड़ा २०२६’ इत्यस्य अन्तर्गतं मिजोरम-राज्यस्य खावबंग-क्षेत्रे समेकित-शिशु-विकास-सेवा (आईसीडीएस) परियोजनया पोषण-स्वास्थ्ययोः विषये जन-जागरूकतां वर्धयितुं विविधाः प्रभाविताः कार्यक्रमाः आयोजिताः।
पोषण जागरूकता कार्यक्रम

महिला-शिशु-विकास-मन्त्रालयस्य अनुसारं अस्य प्रयत्नस्य मुख्यं लक्ष्यं सामुदायिक-सहभागितया कुपोषण-मुक्त-समाजस्य निर्माणं प्रति अग्रसरता अस्ति। अस्मिन् अवसरे आंगनवाड़ी-केंद्राणि सामाजिक-कार्यक्रमैः सह सामुदायिक-सहभागिता-आधारित-क्रियाः अपि सञ्चालितवन्तः।

अस्य उत्सवस्य प्रमुखं आकर्षणं ‘पौष्टिक-भोजनम्’ इति कार्यक्रमः आसीत्, यस्मिन् स्थानीय-स्तरे उपलब्धानां खाद्य-पदार्थानां संतुलित-पोषक-आहाररूपेण प्रदर्शनं कृतम्, येन समुदायेषु स्वस्थ-आहार-प्रथाः प्रोत्साह्यन्ते।

समन्वय-समित्याः प्रतिनिधिभिः विभिन्न-आंगनवाड़ी-केंद्राणां निरीक्षणं कृतम्, यत्र भूमि-स्तरस्य कार्याणां समीक्षा कृता तथा लाभार्थिभिः अग्रिम-पंक्तेः कार्यकर्तृभिः सह संवादः अपि सम्पन्नः। एतेषु निरीक्षणेषु महिला-शिशु-पोषण-स्वास्थ्यवर्धनाय कार्यकर्तॄणां प्रतिबद्धता स्पष्टतया दृष्टा।

एषः प्रयत्नः राष्ट्रस्तरे व्यवहार-परिवर्तनं, सामुदायिक-सहभागितां तथा उत्तम-पोषण-परिणामान् प्रोत्साहयितुं मन्त्रालयस्य निरन्तर-प्रयत्नान् प्रतिपादयति।

हिन्दुस्थान समाचार / अंशु गुप्ता