Enter your Email Address to subscribe to our newsletters

नवदिल्ली-नगरम्, १७ अप्रैलमासः (हि.स.)। अक्षय-तृतीया-अवसरे २० अप्रैलमासे संस्कृत-भारती-संस्थायाः नूतन-केंद्रीय-केन्द्रस्य ‘प्रणव’ इत्यस्य उद्घाटनं करिष्यते। कार्यक्रमः दीनदयाल-उपाध्याय-मार्ग-स्थिते परिसरे आयोज्यते। उद्घाटन-समारोहे राष्ट्रीय-स्वयंसेवक-संघस्य प्रमुखः डॉ.मोहन-भागवतः निर्धारित-मुहूर्ते भवनस्य लोकार्पणं करिष्यति।
कार्यक्रमात् पूर्वं १८ अप्रैलमासात् आरभ्य त्रिदिनपर्यन्तं धार्मिक-अनुष्ठानानि प्रवर्तन्ते, यत्र वेदी-स्थापनम्, जपः तथा पाठः समाविष्टाः सन्ति। उद्घाटन-दिने हवनं प्रसाद-वितरणं च अपि आयोज्यते।
संस्कृत-भारती-पदाधिकाऱिणां अनुसारं एतत् केन्द्रं संस्थायाः प्रमुखं सञ्चालन-स्थानं भविष्यति। १९८१ तमे वर्षे स्थापितं एतत् संगठनं अद्य देशे विदेशे च संस्कृत-भाषायाः व्यवहारिक-प्रचाराय कार्यं करोति।
हिन्दुस्थान समाचार / Divya Ranjan