Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, १७ अप्रैलमासः (हि.स.)। भारतीय-सूचना-प्रौद्योगिकी-संस्थाने (ट्रिपल-आईटी), इलाहाबादे वार्षिक-तकनीकी-महोत्सवः ‘अपरोक्ष-२०२६’ उत्साहपूर्णे ज्ञानवर्धक-वातावरणे विशिष्ट-सहभागितया च सह आरब्धः। अस्मिन् अवसरे संस्थानस्य निदेशकः प्रो.मुकुल-शरद-सुतावाने स्वभाषणे संस्थानस्य त्रयाणां प्रमुख-आयोजनानां—‘एफर्वेसेंस’, ‘अपरोक्ष’ तथा ‘अस्मिता’—उल्लेखं कृत्वा तेषां महत्त्वं विस्तरेण प्रकाशयत्।
तेन छात्राः तकनीकी-क्रियाकलापेषु सक्रिय-सहभागितां कर्तुं प्रेरिताः, तथा उक्तं यत् एतादृशाः मंचाः संस्थानस्य तकनीकी-दक्षतायाः प्रदर्शनस्य प्रमुखं माध्यमं भवन्ति। तेन संस्थानस्य उपलब्धिनां अपि उल्लेखः कृतः तथा छात्रान् ‘अपरोक्ष-२०२६’ इत्यस्य अवसरानां पूर्ण-लाभग्रहणाय प्रेरितवान्।
ततः छात्र-कल्याण-अधिष्ठाता सर्वान् अतिथीन् स्वागतम् अकरोत्, शैक्षणिक-अधिष्ठाता प्रो.पवन-चक्रवर्ती च एतादृशानां आयोजनानां उपयोगितां रेखाङ्कयन् तकनीकी-उत्कृष्टतायाः विकासे तेषां भूमिकां स्पष्टतया निरूपितवान्। उद्घाटनानन्तरं ‘इण्डस्ट्री-इण्टरैक्शन-कॉन्क्लेव’ आयोजितः, यस्मिन् विशेषज्ञाः छात्रैः सह संवादं कृत्वा उद्योगसम्बद्धान् अनुभवाः उक्तवन्तः। ततः ‘स्टार्टअप-पिच्-सत्रम्’ अपि सम्पन्नम्, यत्र प्रतिभागिनः स्व-नवाचार-विचारान् प्रस्तुतवन्तः तथा उद्यमिता-भावना प्रोत्साहिता।
उद्घाटन-दिवसस्य समापनं औपचारिक-धन्यवाद-ज्ञापनेन अभवत्, यत् महोत्सवस्य अग्रिम-तकनीकी-सांस्कृतिक-उद्यमशील-कार्यक्रमाणां शुभारम्भस्य संकेतं दत्तवान्। संस्थानस्य पीआरओ डॉ.पंकजमिश्रः अवदत् यत् एषः उद्घाटन-समारोहः सम्पूर्ण-महोत्सवाय ऊर्जस्वला प्रेरणादायिनी च भूमिका निभवति स्म, या संस्थानस्य नवाचार-शिक्षा-सहयोग-प्रतिबद्धतां प्रतिपादयति।
हिन्दुस्थान समाचार / अंशु गुप्ता