Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 17 अप्रैलमासः (हि. स.)। मुख्यमन्त्री पुष्कर-सिंह-धामी महोदयः शुक्रवासरे सीएम-हेल्पलाइनमध्ये निबद्धस्य एकस्य परिवादस्य गाम्भीर्यं दृष्ट्वा समीक्षा-सभा-पूर्वं स्वयमेव जाखन-क्षेत्रस्य भ्रमणं कृत्वा स्थले स्थितेः निरीक्षणम् अकरोत्।तस्य परिवादस्य राजपुर-मार्गे विद्युत-रेखायाः भूम्यन्तर्गत-स्थापनानन्तरं पदपथस्य जात-हानिः तथा मरम्मत-कार्ये लापरवाही इति आरोपः कृतः आसीत्। देहरादून-निवासी विवेक-मदान नामकः जाखन-निवासी, राजपुर-मार्गे विद्युत-रेखायाः भूम्यन्तर्गत-स्थापनात् उत्पन्नस्य पदपथ-हानिं प्रति सीएम-हेल्पलाइनमध्ये शिकायतां निबद्धवान् आसीत्।
मदान महोदयेन शिकायतायां निर्दिष्टं यत् जाखन-क्षेत्रे पूर्वं मार्ग-तीरे पदपथः निर्मितः, अनन्तरं यूपीसीएल-संस्थया तस्य उत्खननं कृत्वा भूम्यन्तर्गत-विद्युत-रेखा स्थापिताऽभूत्। किन्तु तस्मिन् काले भूमेः सम्यक् पूरणं न कृतम्, यस्य कारणेन पदपथस्य टाइल्स अधः अवसीदन्ति। शिकायतकर्ता विवेक-मदान उक्तवान् यत् निर्माण-कार्ये उत्खनितस्य पदपथस्य सम्यक् पूरणाभावात् टाइल्स अधः निमग्नाः, येन सामान्य-जनानां कष्टं जायते।
शुक्रवासरे मुख्यमन्त्री सीएम-हेल्पलाइनस्य समीक्षा कर्तुं निश्चितवान् आसीत्, किन्तु समीक्षा-सभा-पूर्वमेव सः शिकायतस्य सत्यतां ज्ञातुं प्रत्यक्षतया जाखन-क्षेत्रं गतवान्। मुख्यमन्त्री स्थले उपस्थित्य स्वीय-दूरभाषेण वीडियो-आह्वानस्य माध्यमेन अधिकारिभ्यः वास्तविक-स्थितिं दर्शितवान् तथा कार्येषु समन्वय-अभावे क्रोधं प्रकटितवान्।
तेन निर्देशाः दत्ताः यत् भूम्यन्तर्गत-कार्यस्य अनन्तरम् अपि येषु स्थलेषु उपरि दृश्यन्ते विद्युत-ताराः, ते त्वरितं संशोधिताः स्युः, येन सुरक्षा सुनिश्चिता भवेत्। मुख्यमन्त्री धामी उक्तवान् यत् विभागीय-लापरवाह्या न केवलं जनानां कष्टं जायते, अपि तु शासकीय-संसाधनानां अपव्ययः अपि भवति।
सः अधिकारिणः निर्देशितवान् यत् सर्वाणि कार्याणि योजनानुसारं समन्वित-रीत्या सम्पन्नानि स्युः। मुख्यमन्त्री मुख्य-सचिवं प्रति अपि निर्देशं दत्तवान् यत् प्रदेशे एतादृशानां सर्वेषां शिकायतानां समीक्षा कृत्वा विशेष-अभियानं चालयित्वा त्वरित-समाधानं सुनिश्चितं क्रियताम्।
अस्मिन् अवसरे सः स्थानीय-नागरिकैः व्यापारीभिः च सह संवादं कृत्वा तेषां अभिप्रायं अपि अवगतम्।
हिन्दुस्थान समाचार