Enter your Email Address to subscribe to our newsletters

मऊ, 17 अप्रैलमासः (हि.स.)।
उत्तरप्रदेशस्य नगरविकास-ऊर्जा-मन्त्री ए.के. शर्मा महोदयः गुरुवासरे सायंकाले मऊ-जनपदे आदर्श-नगरपञ्चायत-मधुबनस्य नवनिर्मित-कार्यालय-भवनस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे सः क्षेत्रस्य समग्र-विकासाय स्वप्रतिबद्धतां पुनः अभिव्यक्तवान्, उक्तवान् च यत् मधुबनम् आदर्श-नगररूपेण विकसितुं शासनम् पूर्णतया संकल्पितम् अस्ति।
सः एतत् अवसरं स्थानीय-प्रशासनस्य जनानां च कृते नूतन-आरम्भरूपेण वर्णयन् विकास-कार्येषु शीघ्रतां कर्तुम् आह्वानम् अकरोत्। मन्त्री शर्मा उक्तवान् यत् प्रायः ६५ लक्ष-रूप्यकाणां व्ययेन निर्मितम् एतत् भवनं न्यून-व्ययेन उच्च-गुणवत्तया निर्मितम् अस्ति। सः अधिकारिणां प्रशंसां कृत्वा निर्देशम् अदात् यत् ते एवमेव उत्तरदायित्वेन कार्यं कुर्वन्तः जनानां कृते उत्तम-सुविधाः प्रदद्यु:।
तेन घोषिता यत् मधुबन-क्षेत्रस्य सर्वाः मार्गाः सुधारिताः भविष्यन्ति तथा मार्ग-तीरेषु इंटरलॉकिंग-कार्यं क्रियते। सहैव अन्याः आधारभूत-सुविधाः अपि प्राधान्येन विकसिताः स्युः, येन क्षेत्रस्य समग्र-संरचना सुदृढा भविष्यति।
स्वीय-संबोधने मन्त्री उक्तवान् यत् कृषि-आधारित-उद्योगाः मधुबन-विकासस्य कुञ्जिका सन्ति। तेन किसान-बाजारः, कृषि-मण्डी, कोल्ड-स्टोरेज तथा लघु-कोल्ड-स्टोरेज-स्थापनस्य घोषणा कृता। सः अवदत् यत् एतेन कृषकाः उत्तमं मूल्यं प्राप्स्यन्ति तथा स्थानीय-स्तरे रोजगार-अवसराः अपि वर्धिष्यन्ति।
अतिरिक्ततया दीर्घकालात् निष्क्रिया परदहा-मिल-भूमौ औद्योगिक-पार्क-निर्माणस्य योजना अपि तेन प्रस्तुताऽभवत्, येन क्षेत्रे औद्योगिक-क्रियाकलापाः प्रोत्साहं प्राप्स्यन्ति। सः विश्वासं व्यक्तवान् यत् कृषि-उद्योगयोः समन्वयेन मधुबनम् आगामि-काले विकासस्य नूतन-परिचयः भविष्यति।
कार्यक्रमस्य समापन-अवसरे अध्यक्ष आरती मल्ल तथा प्रतिनिधि प्रशांत मल्ल उर्फ गणेश मल्ल सर्वेषां अतिथीनां उपस्थित-जनानां च धन्यवादं प्रकटितवन्तौ।
---------------
हिन्दुस्थान समाचार