Enter your Email Address to subscribe to our newsletters

—पूर्व केन्द्रीय मंत्रिणः अथ प्रदेशस्य उपमुख्यमंत्रिणो ब्रजेश पाठकस्य 'नारी शक्ति वंदनम् अधिनियम' कार्यक्रमे सम्मिलितम्
वाराणसी, 17 अप्रैलमासः (हि.स.)।
पूर्वकेन्द्रीयमन्त्री स्मृति ईरानी उक्तवती यत् नारीशक्तिवन्दनाधिनियमः केवलं कश्चन विधिः न, अपि तु देशस्य अर्धजनसंख्यायाः सम्मानअधिकारयोः दस्तावेजः अस्ति। अस्य विधेयकस्य प्रवर्तनात् संसद् विधानसभासु च स्त्रीणां कृते त्रयस्त्रिंशत् प्रतिशत आरक्षणं सुनिश्चितं भविष्यति, येन नीतिनिर्धारणे तासां प्रभावी भूमिका स्थापिताऽभविष्यति।
पूर्वकेन्द्रीयमन्त्री स्मृति ईरानी शुक्रवासरे अत्र चौकाघाटस्थिते गिरजादेवी सांस्कृतिक संकुल सभागारे आयोजिते नारीशक्तिवन्दन सशक्तनारी सशक्तभारत कार्यक्रमे सम्बोधनं कुर्वती आसीत्। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठकस्य उपस्थितौ सा उक्तवती यत् नरेन्द्रमोदी नेतृत्वे देशस्य कन्याः आत्मनिर्भराः कर्तुं संकल्पः अधुना भूमौ अवतीर्णः अस्ति। बेटीबचाओ बेटीपढ़ाओ तथा सुकन्यासमृद्धि योजना इत्यादिभिः कन्याभ्यः सुरक्षितं भविष्यं प्रदत्तम्। उज्ज्वला योजना तथा मातृवन्दना योजना इत्येताभ्यां स्त्रीणां जीवनस्तरे महान् परिवर्तनः जातः। अधुना महिला आरक्षण विधिना राजनीति शिक्षा रोजगार क्षेत्रेषु स्त्रीणां आत्मविश्वासः नेतृत्वक्षमता च अधिकं सुदृढा भविष्यति।
कार्यक्रमे उपमुख्यमन्त्री ब्रजेश पाठक उक्तवान् यत् काशीभूमिः सर्वदा नारीशक्तेः उपासिका आसीत्। तेन उक्तं यत् स्त्रीणां निर्णयप्रक्रियायां सहभागिता विकसितभारतनिर्माणाय अनिवार्या अस्ति। नरेन्द्रमोदी महाभागेन भेदभावं विना जनकल्याण योजनाः प्रवर्तिताः तथा मुस्लिमकन्याभ्यः अपि संरक्षणं प्रदत्तम्।
अस्य पूर्वं कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन स्मृति ईरानी तथा ब्रजेश पाठकाभ्यां कृतः। कार्यक्रमे साहित्यकारा डॉ नीरजा माधव वरिष्ठ भाजपा नेत्री मीना चौबे जिला पंचायत अध्यक्षा पूनम मौर्या आनन्द प्रभा पूर्व जिला पंचायत अध्यक्षा अपराजिता सोनकर साधना वेदान्ती पूर्व महापौर मृदुला जायसवाल निर्मला सिंह पटेल पद्मश्री पुरस्कारेण सम्मानिता भरतनाट्यम् कलाकार नलिनी कमलिनी इत्यादयः उपस्थिताः आसन्।
कार्यक्रमस्य संचालनं रचना अग्रवालया कृतम् तथा धन्यवाद प्रस्तावः साधना वेदान्त्या दत्तः। कार्यक्रमे भाजपा क्षेत्रीय अध्यक्ष दिलीप पटेल महानगर अध्यक्ष प्रदीप अग्रहरि जिला अध्यक्ष तथा एमएलसी हंसराज विश्वकर्मा वाराणसी महापौर अशोक तिवारी राज्य मन्त्री रविन्द्र जायसवाल एमएलसी धर्मेन्द्र सिंह अशोक पाण्डेय इत्यादयः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार