चारधाम यात्रा : ऑफलाइन पंजीकरणं शुभारब्धम्
हरिद्वारम्, 17 अप्रैलमासः (हि.स.)। उत्तराखण्डस्य विश्वप्रसिद्धा चारधामयात्रा हरिद्वारजनपदात् विधिवत् प्रारब्धा अस्ति। यात्रायाः सुगमता सुरक्षा च सुनिश्चित्य ऋषिकुलमैदाने स्थापिते ऑफलाइन-पञ्जीकरणकेन्द्रे शुक्रवासरे तीर्थयात्रिकाणां पञ्जीकरणप्रक्रि
चार धाम यात्रा के दौरान डीएम व एसएसपी के साथ श्रद्धालु


हरिद्वारम्, 17 अप्रैलमासः (हि.स.)।

उत्तराखण्डस्य विश्वप्रसिद्धा चारधामयात्रा हरिद्वारजनपदात् विधिवत् प्रारब्धा अस्ति। यात्रायाः सुगमता सुरक्षा च सुनिश्चित्य ऋषिकुलमैदाने स्थापिते ऑफलाइन-पञ्जीकरणकेन्द्रे शुक्रवासरे तीर्थयात्रिकाणां पञ्जीकरणप्रक्रिया आरब्धा अस्ति। सर्वप्रथमं पञ्जीकरणस्य गौरवं मध्यप्रदेशस्य शहडोलजनपदात् आगतस्य सप्तसदस्यीयस्य तीर्थयात्रिकदलस्य अभवत्।

अस्मिन् दले बिसाहूलालविश्वकर्मा मुन्नीविश्वकर्मा प्यारेलालविश्वकर्मा रामदीनप्रजापति दशरथप्रजापति शान्तिप्रजापति पार्वतीप्रजापति च समाविष्टाः आसन्। अस्य अवसरस्य प्रसङ्गे जिलाधिकारी मयूरदीक्षितः वरिष्ठपुलिसअधीक्षकः नवनीतसिंहभुल्लरः च अतिथिदेवो भव इति परम्परां पालनं कृत्वा तीर्थयात्रिकाणां पुष्पमालाभिः तिलकचन्दनेन च भव्यं स्वागतं कृतवन्तौ। अधिकारीणः यात्रिकाणां मंगलमययात्रायै शुभकामनाः अपि अयच्छन्।

ऋषिकुलमैदानस्थिते पञ्जीकरणकेन्द्रे जिलाप्रशासनद्वारा व्यापकाः सुयोजिताः व्यवस्थाः कृताः सन्ति। अत्र तीर्थयात्रिकाणां कृते सम्यक् पञ्जीकरणव्यवस्था उपवेशनव्यवस्था पेयजलसुविधा सुरक्षा स्वास्थ्यपरीक्षणव्यवस्था च उपलब्धा अस्ति। स्वास्थ्यविभागेन यात्रिकाणां स्वास्थ्यपरीक्षणं स्क्रीनिङ्ग् च सुनिश्चितं क्रियते।

अस्मिन् काले तीर्थयात्रिकेषु विशेषः उत्साहः दृष्टः। पञ्जीकरणकेन्द्रे विभिन्नराज्येभ्यः बहवः श्रद्धालवः आगच्छन्ति निरन्तरं च चारधामयात्रायाः कृते स्वपञ्जीकरणं कुर्वन्ति।

अस्मिन् अवसरस्य प्रसङ्गे अपरजिलाधिकारी पी आर चौहान एसपी सिटी अभयप्रतापसिंह सिटीमजिस्ट्रेट कुश्मचौहान उपजिलाधिकारी जितेन्द्रकुमारः जिलापर्यटनाधिकारी सुशीलनौटियालः अपरमुख्यचिकित्साधिकारी डॉ अनिलवर्मा जिलाआपदाप्रबन्धनाधिकारी मीरारावत जिलासूचनाधिकारी रतीलालशाहः अन्ये अधिकारी कर्मचारी च उपस्थिताः आसन्।

हिन्दुस्थान समाचार