Enter your Email Address to subscribe to our newsletters

वाराणसी,17 अप्रैलमासः (हि.स.)।
पूर्व-केन्द्रीय-मन्त्री स्मृति ईरानी शुक्रवासरे पूर्वाह्णे वाराणसी नगरं प्राप्तवती। बाबतपुर-स्थिते लाल बहादुर शास्त्री अन्तरराष्ट्रीय हवाईअड्डा विमानतले तस्याः स्वागतं भारतीय जनता पार्टी काशि-क्षेत्राध्यक्षेन दिलीप-पटेल-नेतृत्वे पक्ष-नेतृभिः कृतम्।
विमानतले किञ्चित्कालं पक्ष-नेतृभिः सह संवादं कृत्वा सा नगरं प्रति प्रस्थितवती। सा चौकाघाट-स्थिते सांस्कृतिक-संकुले आयोजिते “नारी-शक्ति-वन्दन-अधिनियम”-कार्यक्रमे सहभागिता करिष्यति।
विमानतले स्वागतकर्तृषु निर्मला-सिंह, अनिल-श्रीवास्तव, शिवानन्द-राय (प्रोटोकॉल-प्रभारी), शैलेश-पाण्डेयः इत्यादयः उपस्थिताः आसन्।
अपरतः सम्पूर्णानन्द संस्कृत विश्वविद्यालय इत्यस्य तत्त्वावधानेन “नारी-शक्ति-वन्दन-अधिनियम–प्रचार-अभियान”-अन्तर्गतं शुक्रवासरे स्कूटीयानयात्रा अपि आयोजिता अस्ति। एषा रैली अपराह्णे त्रिवादने विश्वविद्यालयस्य मुख्य-भवनात् आरभ्य राजकीय आयुर्वेद महाविद्यालय एवं चिकित्सालय मार्गेण गत्वा पुनः मुख्य-भवने समाप्ता भविष्यति।
अस्यां यात्रायां विश्वविद्यालयस्य सर्वाः महिला-अध्यापिकाः, कर्मचारीणः तथा छात्राः उत्साहपूर्वकं सहभागिता करिष्यन्ति। एतां सूचनां विश्वविद्यालयस्य जनसम्पर्क-कार्यालयेन प्रदत्ता।
---------------
हिन्दुस्थान समाचार