उपराष्ट्रपतिः राधाकृष्णन् 19-20 अप्रैल दिनांके श्रीलंकायाम्
नवदिल्ली, 17 अप्रैलमासः (हि.स.)।उपराष्ट्रपतिः सीपी राधाकृष्णन एप्रिल-मासस्य १९ तथा २० दिनाङ्कयोः श्रीलंका देशस्य यात्रां करिष्यति। एषा उपराष्ट्रपतेः श्रीलंकादेशस्य प्रति प्रथमा द्विपक्षीययात्रा भविष्यति। विदेशमन्त्रालयस्य अनुसारं अस्यां यात्रायां
उपराष्ट्रपति सीपी राधाकृष्णन की फाइल फोटो।


नवदिल्ली, 17 अप्रैलमासः (हि.स.)।उपराष्ट्रपतिः सीपी राधाकृष्णन एप्रिल-मासस्य १९ तथा २० दिनाङ्कयोः श्रीलंका देशस्य यात्रां करिष्यति। एषा उपराष्ट्रपतेः श्रीलंकादेशस्य प्रति प्रथमा द्विपक्षीययात्रा भविष्यति।

विदेशमन्त्रालयस्य अनुसारं अस्यां यात्रायां उपराष्ट्रपतिः श्रीलंकादेशस्य राष्ट्रपतिना अनुरा कुमार दिसानायका सह, तथैव प्रधानमन्त्रिणा डॉ. हरिणी अमरसूर्या सह, अन्यैः गणमान्यैः व्यक्तिभिः तथा भारतीय-प्रवासी-नेतृभिः सह अपि मिलिष्यति।

उल्लेखनीयम् अस्ति यत् उपराष्ट्रपतेः एषा श्रीलंका-यात्रा उभयोः देशयोः मध्ये अतीव समीपे काले सम्पन्नानां उच्चस्तरीय-सभानां अनन्तरं भवति। एषा यात्रा भारत-श्रीलंका-देशयोः मध्ये विद्यमानान् शताब्दी-प्राचीनान् जन-संबन्धान् अधिकं दृढीकर्तुं सहायकाऽपि भविष्यति।

---------------

हिन्दुस्थान समाचार