Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 अप्रैलमासः (हि.स.)।
पूर्वराष्ट्रपतिः, प्रख्यातशिक्षाविद्, दार्शनिकः महान् शिक्षकश्च डॉ. सर्वपल्ली राधाकृष्णन महोदयस्य पुण्यतिथौ उपराष्ट्रपतिः सीपी राधाकृष्णन सहिताः केन्द्रीयमन्त्रिणः राज्येषां मुख्यमन्त्रिणश्च तस्मै श्रद्धाञ्जलिं समर्पितवन्तः।
उपराष्ट्रपतिः राधाकृष्णन उक्तवान् यत् डॉ. राधाकृष्णनः स्वजीवनं ज्ञानस्य अन्वेषणाय तथा युवमनसां निर्माणाय समर्पितवान्। तस्य जीवनं शिक्षायाः शक्तेः, विनयस्य राष्ट्रसेवायाश्च प्रमाणम् अस्ति। तस्य स्थायिनी विरासत् अस्मान् स्वजीवने ज्ञानम्, अखण्डता, करुणा च धारयितुं प्रेरयति।
केन्द्रीयमार्गपरिवहनमन्त्री नितिन गडकरी अपि पूर्वराष्ट्रपतिं भारतरत्न-समन्वितं डॉ. सर्वपल्ली राधाकृष्णनं स्मृत्वा श्रद्धाञ्जलिं अर्पितवान्। केन्द्रीयकृषिमन्त्री शिवराज सिंह चौहान अपि तस्य पुण्यतिथौ श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् तस्य ओजस्विनः विचाराः सदा युवान् शिक्षितान् समर्थान् सशक्तभारतस्य निर्माणाय प्रेरयिष्यन्ति।
केन्द्रीयमन्त्री गिरिराज सिंह उक्तवान् यत् शिक्षायाः प्रति तस्य समर्पणं तस्य विचाराश्च अस्माकं मार्गदर्शनं करिष्यन्ति। केन्द्रीयशिक्षामन्त्री धर्मेंद्र प्रधान तं प्रणम्य उक्तवान् यत् सः प्रतिष्ठितः दार्शनिकः राजनीतिज्ञश्च आसीत्, शिक्षाक्षेत्रे सार्वजनिकजीवने च तस्य योगदानं पीढीनां प्रेरणास्रोतं भविष्यति।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ अपि तस्य पुण्यतिथौ श्रद्धाञ्जलिं दत्त्वा उक्तवान् यत् तस्य जीवनं शिक्षा, संस्कारः भारतीयचिन्तनस्य महान् परम्परायाः उज्ज्वलप्रतीकं वर्तते। तस्य विचाराणां ज्योतिः सदा शिक्षाया: संस्कृतेः मानवीयमूल्यानां च मार्गं प्रकाशितं करिष्यति।
दिल्ली-प्रदेशस्य मुख्यमन्त्री रेखा गुप्ता अपि तं नत्वा उक्तवती यत् भारतीयज्ञानपरम्परायाः शिक्षाक्षेत्रस्य च तस्य आजीवनसमर्पणं सर्वेषां प्रेरणास्रोतं वर्तते। राष्ट्रनिर्माणे बौद्धिकचेतनायाः विस्ताराय च तस्य अद्वितीयं योगदानं राष्ट्रं सदा कृतज्ञतया स्मरिष्यति।
उल्लेखनीयम् अस्ति यत् डॉ. सर्वपल्ली राधाकृष्णनः (1888–1975) देशस्य प्रथमः उपराष्ट्रपतिः (1952–1962) द्वितीयः राष्ट्रपतिश्च (1962–1967) आसीत्। सः महान् दार्शनिकः शिक्षाविद् च आसीत्। तस्य सम्मानार्थं प्रति वर्षं पञ्चमसितम्बर-दिने ‘शिक्षकदिवसः’ आचर्यते। सः 1954 वर्षे भारतरत्नेन सम्मानितः। सः भारतीयदर्शनं विश्वपटलस्य उपरि प्रतिष्ठापितवान् तथा शिक्षाव्यवस्थायाः सुधारार्थं राधाकृष्णनसमित्याः नेतृत्वं कृतवान्।
---------------
हिन्दुस्थान समाचार