Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १७ अप्रैलमासः (हि.स.)। देवेंद्रफडणवीसेन शुक्रवासरे उक्तं यत् प्रायः १४०० निर्माणी पश्चिमबंगाल-राज्यं त्यक्त्वा महाराष्ट्र-राज्ये व्यापार-क्रियाः कुर्वन्ति।
न्यू-टाउन-प्रदेशे आयोजिते संवाददाता-सम्मेलने तेन उक्तं यत् दीर्घकालीन-सम्बद्धाः बहवः वृहद्-उद्योगाः अधुना महाराष्ट्र-राज्ये कार्यरताः सन्ति। तेन एषः विषयः पश्चिम बंगाल-राज्यस्य आर्थिक-स्थितेः सूचकः इति अपि प्रतिपादितम्।
देवेंद्र-फडणवीसेन भारतीयजनतापक्षस्य रोजगार-विषयः प्रस्तुतः कृतः। तेन उक्तं यत् यदि पश्चिमबंगाल-राज्ये भाजपायाः सर्वकारः भवति, तर्हि संकल्प-पत्रानुसारं एक-कोटि-यूनां कृते रोजगार-अवसराः प्रदास्यन्ते।
देवेंद्रफडणवीसः अपि अवदत् यत् देशस्य प्रायः ६५ प्रतिशतं जनसंख्या ३५-वर्षात् न्यून-वयस्का अस्ति, अतः तेषां कृते रोजगार-निर्माणं अत्यावश्यकम्। सः उक्तवान् यत् सर्वकाराः केवलं अनुकूलं वातावरणं निर्मान्ति, किन्तु वास्तविकं रोजगारं उद्योगाः एव सृजन्ति।
तेन इदम् अपि प्रतिपादितम् यत् सर्वकारी-आजीविकाः सीमिताः भवन्ति, अतः उद्योग-आधारित-रोजगार-विस्तारः आवश्यकः। भारतीय-जनतापक्ष-शासितेषु राज्येषु एतादृशं निवेश-अनुकूल-वातावरणं निर्मितम् इति सः उक्तवान् तथा पश्चिम बंगाल-राज्येऽपि तथैव परिवर्तनस्य अपेक्षां कृतवान्।
देवेंद्रफडणवीसः अपि उक्तवान् यत् यदि राज्ये शासन-परिवर्तनं भवति, तर्हि पश्चिम बंगाल अग्रिम-पञ्च-सप्त-वर्षेषु देशस्य शीर्ष-पञ्च-राज्येषु पुनः स्थानं प्राप्तुं शक्नोति।
हिन्दुस्थान समाचार / अंशु गुप्ता