देशे पेट्रोल-डीजल अथ एलपीजी इत्यस्य सेवा सामान्या, अपवाहेभ्यः अरचत् - केंद्रम्
नव दिल्ली, 17 अप्रैलमासः (हि.स.)।पश्चिम-एशिया-प्रदेशे प्रवर्तमाने तनावस्य मध्ये भारत-सरकारेण स्पष्टतया उक्तं यत् भारतस्य पेट्रोलियम-आपूर्तौ किञ्चित् व्यवधानस्य सम्भावना सति अपि देशे पेट्रोल-डीजल-एलपीजी-आपूर्तिः पूर्णतया सामान्याऽस्ति तथा कस्यापि प्
पश्चिम एशिया संकट के बीच ईंधन आपूर्ति की स्थिति पर जानकारी देते अधिकारी।


नव दिल्ली, 17 अप्रैलमासः (हि.स.)।पश्चिम-एशिया-प्रदेशे प्रवर्तमाने तनावस्य मध्ये भारत-सरकारेण स्पष्टतया उक्तं यत् भारतस्य पेट्रोलियम-आपूर्तौ किञ्चित् व्यवधानस्य सम्भावना सति अपि देशे पेट्रोल-डीजल-एलपीजी-आपूर्तिः पूर्णतया सामान्याऽस्ति तथा कस्यापि प्रकारस्य अभावः नास्ति। सरकारेण जनसामान्यं प्रति अपीलं कृतं यत् अफवाहासु ध्यानं न ददतु तथा च भीतिभावेन क्रयक्रियायां न प्रवर्तन्ताम्। अपि च सरकारेण उक्तं यत् भारतीय-नागरिकाणां समुद्री-कर्मचारिणां च सुरक्षा सुनिश्चितुं निरन्तरं प्रयासाः क्रियन्ते तथा देशस्य बन्दरगाहानां सञ्चालनम् अपि सामान्यरूपेण प्रवर्तते।

पेट्रोलियम-प्राकृतिक-गैस-मन्त्रालये संयुक्त-सचिवा सुजाता शर्मा शुक्रवासरे राष्ट्रिय-मीडिया-केंद्रे आयोजितायां अन्तर-मन्त्रालयीय-पत्रकार-वार्तायां उक्तवती यत् पश्चिम-एशिया-संकटेन आपूर्तिः प्रभावितुं शक्यते इति आशङ्का सति अपि घरेलू-एलपीजी-आपूर्तिः पूर्णतया सुचारु रूपेण प्रवर्तते। कस्यचित् वितरकस्य समीपे गैस-समाप्तेः काचित् सूचना न प्राप्ता। प्रतिदिनं विशाल-परिमाणे सिलिण्डर-आपूर्तिः क्रियते तथा अलीकाले एव प्रायः पञ्चाशत्-लक्षाधिक-गृहेषु एलपीजी-सिलिण्डराः प्रेषिताः। ऑनलाइन-बुकिङ्ग-स्तरः अष्टनवति-प्रतिशतं तथा प्रमाणीकरण-कोडेन सह वितरणं त्रिनवति-प्रतिशतं अस्ति, यदा वाणिज्यिक-एलपीजी-आपूर्तिः अपि बहुशः पुनर्स्थापिता अस्ति।

तया उक्तं यत् पेट्रोल-डीजलयोः उपलब्धिः अपि पर्याप्ता अस्ति तथा रिफाइनर्यः पूर्ण-क्षमतया कार्यं कुर्वन्ति। कच्च-तेल-भण्डारः अपि पर्याप्तः अस्ति, येन आपूर्तौ कश्चित् दबावः नास्ति। पेट्रोल-पम्पाः सामान्यरूपेण संचालिताः सन्ति। आपूर्तिव्यवस्थां स्थिरां कर्तुं सरकारेण प्रवर्तन-कार्यवाही अपि तीव्रता प्राप्ता, यस्य अन्तर्गतं २५५ वितरकाः दण्डिताः तथा ६५ निलम्बिताः।

विदेश-मन्त्रालये अपर-सचिवः (खाड़ी-प्रदेशः) असीम आर महाजन उक्तवान् यत् सरकारस्य प्रयासाः पश्चिम-एशिया-प्रदेशे भारतीयानां सुरक्षा, संरक्षा तथा कल्याणं सुनिश्चितुं केन्द्रिताः सन्ति। राज्य-सरकारैः केन्द्र-शासित-प्रदेशैः च सह निरन्तरं समन्वयः क्रियते। भारतीय-मिशनाः दूतावासाः च चतुर्विंशतिघण्टाः हेल्पलाइनं सञ्चालयन्ति तथा आवश्यकतानुसारं नागरिकानां साहाय्यं कुर्वन्ति। समये समये परामर्शाः अपि निर्गच्छन्ति, येषु स्थानीय-स्थिति, यात्रा, विमान-सेवा तथा वाणिज्य-दूतावास-सेवा विषये सूचना भवति।

पत्तन-पोत-परिवहन-जलमार्ग-मन्त्रालये अतिरिक्त-सचिवः मुकेश मंगल उक्तवान् यत् जहाजरानी-मन्त्रालयं विदेश-मन्त्रालयेन सह समन्वयं कृत्वा समुद्री-क्रियाकलापानां भारतीय-नाविकानां च सुरक्षा सुनिश्चितुं कार्यं करोति। अस्मिन् प्रदेशे सर्वे भारतीय-समुद्री-कर्मचारिणः सुरक्षिताः सन्ति तथा गत-चतुर्विंशतिघण्टासु कस्यापि भारतीय-ध्वज-युक्त-जहाजस्य सम्बन्धे काचित् घटना न अभवत्। अद्यावधि द्विसहस्र-चतुःशताधिक-भारतीय-समुद्री-कर्मचारिणः सुरक्षिततया प्रत्यानीयाः, येषु त्रिंशत् जनाः गत-चतुर्विंशतिघण्टासु खाड़ी-प्रदेशात् निष्कासिताः। देशस्य सर्वेषु बन्दरगाहेषु सञ्चालनं सामान्यं प्रवर्तते तथा कुत्रापि संमर्दस्थिति न दृश्यते।

---------------

हिन्दुस्थान समाचार