विश्वनिक्षेपदिवसम् उपलक्ष्य 'वस्त्रविरासते' प्रति केंद्रित कार्यशालानाम् आयोजनम्
नवदिल्ली, 17 अप्रैलमासः (हि.स.)। भारतीय-विरासत-संस्थानम् (आईआईएच) शुक्रवासरे अत्र विश्व-विरासत-दिवसस्य अवसरम् उपलक्ष्य एकसप्ताह-पर्यन्तं चलिष्यन्तं विशेष-समारोहम् आरब्धवान्। अयं आयोजनः १७–२२ अप्रैल-पर्यन्तं भविष्यति। संस्थानेन उक्तं यत् अस्य समार
प्रतीकात्मक चित्र


नवदिल्ली, 17 अप्रैलमासः (हि.स.)।

भारतीय-विरासत-संस्थानम् (आईआईएच) शुक्रवासरे अत्र विश्व-विरासत-दिवसस्य अवसरम् उपलक्ष्य एकसप्ताह-पर्यन्तं चलिष्यन्तं विशेष-समारोहम् आरब्धवान्। अयं आयोजनः १७–२२ अप्रैल-पर्यन्तं भविष्यति। संस्थानेन उक्तं यत् अस्य समारोहस्य उद्देश्यः मानव-विरासतस्य संरक्षणे वैश्विक-संकल्पस्य सुदृढीकरणम् अस्ति। अस्मिन् अवसरे वंचित-समुदायानां कृते ‘वस्त्र-विरासत’ विषयके कार्यशाला-आयोजनानि भविष्यन्ति।

समारोहस्य अन्तर्गतं व्याख्यानानि, कार्यशालाः तथा ऑनलाइन-संवादाः आयोज्यन्ते। शनिवासरे (१८ अप्रैल) संस्थानस्य सभागारे द्वे महत्वपूर्णे सत्रे आयोज्येते। प्रातः ११ वादने कथक-नृत्याङ्गना डॉ. शोवना नारायण ‘कथक-गत्या विरासत: कालस्य परम्परायाः च कथाः’ इति विषये स्वीयां प्रस्तुतीं विचारांश्च प्रस्तोष्यति। ततः अनन्तरं भारतीय-पुरातत्त्व-सर्वेक्षणस्य (एएसआई) अतिरिक्त-महानिदेशकः डॉ. संजय कुमार मंजुल ‘सिन्धु–सरस्वती-संस्कृतेः नवीन-साक्ष्यानि: राखीगढ़ी-उत्खननम्’ इति विषयेन इतिहासस्य अनवलोकित-पक्षान् प्रकाशयिष्यति। अस्य सत्रस्य अध्यक्षता भारतीय-विरासत-संस्थानस्य कुलपतिः डॉ. सच्चिदानन्द जोशी करिष्यति।

संस्थानस्य संग्रहालय-विज्ञान-विभागः एकस्याः अनन्यायाः पहलायाः अन्तर्गतं वंचित-समुदायानां कृते विशेष-कार्यशाला-श्रृंखलां आयोजयति। ‘From Collection to Museum: Our Textiles, Our Stories’ इति शीर्षकेन आयोजितस्य अस्य कार्यक्रमस्य उद्देश्यः समाजस्य तान् वर्गान् संग्रहालयेन सांस्कृतिक-विरासतेन च सम्बद्धान् कर्तुम् अस्ति, ये प्रायः एतेषु अवसरिषु वञ्चिताः भवन्ति।

अस्यैव श्रृंखलायाः अन्तर्गतं २२ अप्रैल-दिने राष्ट्रीय-शिल्प-संग्रहालये हस्तकला-अकादम्यां च भव्य-आयोजनं भविष्यति, यत्र प्रतिभागिनः शिल्प-गुरुभ्यः सह प्रत्यक्षं संवादं करिष्यन्ति तथा वस्त्राणां गृह-उपयोगात् आरभ्य संग्रहालय-धरोहरत्व-पर्यन्तं तेषां यात्रां अवगमिष्यन्ति।

पुरालेख-पुरालिपि-मुद्राशास्त्र-विभागः ‘भारतीय-विरासत-संस्थान-द्वारा विरासत-संवाद’ इति नाम्ना ऑनलाइन-व्याख्यान-श्रृंखलाम् अपि प्रारभते। अस्याः प्रथमं व्याख्यानं १८ अप्रैल-दिने सायं ४ वादने एएसआई-अभिलेख-शाखायाः पूर्व-निदेशकः डॉ. टी. एस. रविशंकर प्रदास्यति।

संस्थानस्य अनुसारं एतेषां आयोजनानां मूल-उद्देश्यः समावेशी-शिक्षायाः प्रोत्साहनम् अस्ति। भारतस्य वस्त्र-विरासतं केवलं वस्तु-रूपेण न, अपि तु जीवन्त-परिचय-रूपेण प्रस्तोतुं प्रयत्नः क्रियते, येन आगामि-पीढ्यः स्वमूलानां स्वपरिचयस्य च प्रति जागरूकाः भवेयुः।

---------------

हिन्दुस्थान समाचार