Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 18 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य योगी-सरकारः पशुपालनं सुदृढीकर्तुं व्हाट्सऐप्-चैनल् निर्मितवती अस्ति। अस्य चैनलस्य माध्यमेन अधुना पशुपालनं कथं कर्तव्यम् इति विषये सूचना प्राप्तुं शक्यते। अस्य कृते पशुपालनविभागेन एकः बारकोड् अपि प्रकाशितः, यस्य स्कैनकरणेन कश्चन अपि पशुपालकः आवश्यकां जानकारीं प्राप्तुं शक्नोति। एषा सूचना शनिवासरे प्रयागराजस्य मुख्यपशुचिकित्साधिकारी डॉ शिवनाथ यादवेन प्रदत्ता।
तेन उक्तं यत् उत्तरप्रदेशस्य पशुपालनविभागेन एषः व्हाट्सऐप्-चैनल् निर्मितः अस्ति। अस्य पटलस्य साहाय्येन पशुपालनसम्बद्धाः सर्वाः जानकारीः प्राप्ताः भवितुं शक्नुवन्ति। पशुपालकाः कृषकाः च विभागस्य योजनासम्बद्धां सूचनाम् अपि ज्ञातुं शक्नुवन्ति।
तेन उक्तं यत् अस्य चैनलस्य माध्यमेन गोपालनं, महिषपालनं, अजपालनं, कुक्कुटपालनं, बटेरपालनं च तथा पशूनां पक्षिणां च विषये विस्तृतसूचना लभ्यते।
मुख्यपशुचिकित्साधिकारी डॉ शिवनाथ यादवः पशुपालकान् कृषकान् च प्रति आवाहनं कृतवान् यत् सर्वे अपि उत्तरप्रदेश-पशुपालनविभागेन प्रदत्तं बारकोड् स्कैन कृत्वा अस्मिन् चैनले संयुज्यन्ताम् तथा स्वस्य आर्थिकस्थितिं सुदृढीकर्तुं अग्रे सरन्तु।
---------------
हिन्दुस्थान समाचार