विपक्षी-दलानि महिला-अधिकाराणां विरोधिनः सन्ति : रेखा-गुप्ता
नवदिल्ली-नगरम्, १८ अप्रैलमासः (हि.स.)। दिल्ली-नगरस्य मुख्यमन्त्री रेखा-गुप्ता कांग्रेस-पक्षं सहितं सर्वान् विपक्ष-दलान् महिलानां अधिकार-प्रदानस्य विरोधिनः इति उक्तवती। मुख्यमन्त्री रेखा-गुप्ता शनिवासरे कन्फेडरेशन-ऑफ-ऑल-इण्डिया-ट्रेडर्स (कैट) इत्यस
कैट के हिंदी भवन में  आज आयोजित दिवसीय दो दिवसीय सम्मेलन  के दौरान  चार सौ से ज्यादा महिला उद्यमियों के साथ काला पट्टा बांधकर विपक्ष की महिला विरोधी राजनीति के खिलाफ अपना विरोध दर्ज कराती  मुख्यमंत्री  रेखा गुप्ता


नवदिल्ली-नगरम्, १८ अप्रैलमासः (हि.स.)। दिल्ली-नगरस्य मुख्यमन्त्री रेखा-गुप्ता कांग्रेस-पक्षं सहितं सर्वान् विपक्ष-दलान् महिलानां अधिकार-प्रदानस्य विरोधिनः इति उक्तवती।

मुख्यमन्त्री रेखा-गुप्ता शनिवासरे कन्फेडरेशन-ऑफ-ऑल-इण्डिया-ट्रेडर्स (कैट) इत्यस्य हिन्दी-भवने आयोजिते द्विदिवसीये सम्मेलनॆ सहभागिता अकरोत्। सा अत्र चतुर्शताधिकाभिः महिला-उद्यमिभिः सह कृष्ण-पट्टिकां बद्ध्वा विपक्षस्य महिला-विरोधि-राजनीतिं प्रति स्व-विरोधं प्रकटितवती। अस्मिन् अवसरे भारतीय-जनता-पक्षस्य (भाजपा) सांसदः तथा कैट-राष्ट्रीय-महामन्त्री प्रवीण-खण्डेलवालः अपि उपस्थितः आसीत्।

मुख्यमन्त्री उक्तवती यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना देशस्य कन्याभ्यः राष्ट्र-निर्माणे सहभागिता दातुं ‘नारी-शक्ति-वन्दन-अधिनियमः’ प्रस्तुतः, किन्तु खेदजनकं यत् केचन दलानि अस्य ऐतिहासिक-अवसरस्य अपि संकीर्ण-राजनीतिदृष्ट्या अवलोकनं कृत्वा महिलानां अधिकाराणां विरोधे न किमपि संकोचं कृतवन्तः। संसदि ये दलाः महिला-आरक्षणस्य विरोधं कृतवन्तः, तेषां तर्केषु कश्चन ठोस-आधारः नासीत्, केवलं महिला-विरोधिनी मानसिकता एव स्पष्टा अभवत्। ये नेतारः महिला-आरक्षणस्य विरोधं कृतवन्तः, तेषां क्षेत्रेषु अस्माकं भगिन्यः कन्याश्च तेषां प्रति उत्तरं याचिष्यन्ते।

मुख्यमन्त्री उक्तवती यत् अधुना देशः परिवर्तितः अस्ति, नारी-शक्तिः प्रतीक्षां न करिष्यति, अपितु स्व-अधिकारान् स्वयमेव प्राप्स्यति।

सांसदः प्रवीण-खण्डेलवालः ‘एक्स’ इत्यस्मिन् माध्यमे लिखितवान् यत् कैट-द्विदिवसीय-सम्मेलनॆ चतुर्शताधिकाः महिला-उद्यमिन्या मुख्यमन्त्रिणा सह कृष्ण-पट्टिकाः बद्ध्वा कांग्रेस-पक्षस्य तीव्रं विरोधं कृतवन्त्यः। लोकसभायां महिला-आरक्षण-विधेयकं निरोद्धुं प्रयतमानया कांग्रेस-पक्षेन पुनः एतत् सिद्धं कृतम् यत् सः नारी-शक्तेः महान् विरोधी अस्ति। देशस्य कन्याः अधुना मौनं न धारयिष्यन्ति, कांग्रेस-पक्षस्य नारी-विरोधिनी योजना च प्रकटिता अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता