Enter your Email Address to subscribe to our newsletters

भारतम् अद्य अन्तरिक्षविज्ञानक्षेत्रे वैश्विकशक्तिरूपेण उदेति, किन्तु अस्य गौरवपूर्णस्य यात्रायाः आरम्भः ऐतिहासिकसिद्ध्या अभवत्। १९ अप्रैल दिनाङ्कः भारतीयान्तरिक्षइतिहासे विशेषमहत्त्वं धारयति, यतः अस्मिन्नेव दिने भारतेन स्वः प्रथमः उपग्रहः “आर्यभट्टः” प्रक्षिप्य अन्तरिक्षयुगे प्रवेशः कृतः।
वर्षे १९७५ तमे सोवियतसंघस्य साहाय्येन, यः अद्य रूसदेश इति कथ्यते, अयं उपग्रहः अन्तरिक्षे प्रेषितः। एषः भारतस्य प्रथमः वैज्ञानिकः उपग्रहः आसीत्, यस्य नाम महान् गणितज्ञः खगोलशास्त्री च आर्यभट्टस्य सम्मानार्थं स्थापितम्। अस्य अभियानस्य कारणेन भारतः तेषां विरलदेशानां सूचीमध्ये सम्मिलितः अभवत् ये अन्तरिक्षे स्वकीयां उपस्थितिं स्थापितवन्तः।
आर्यभट्टस्य प्रक्षेपणं भारतस्य वैज्ञानिकविकासदिशि एकं मीलपत्थरवत् सिद्धम्। अनेन देशे अन्तरिक्षअनुसन्धानस्य, संचारप्रविधेः, वैज्ञानिकप्रयोगानां च दृढा आधारशिला स्थापिता। एषा एव सा आरम्भिका अवस्था आसीत् या अनन्तरं भारतं अन्तरिक्षक्षेत्रे आत्मनिर्भरत्वस्य मार्गे अग्रे नीतवती।
अद्य भारतीयान्तरिक्षअनुसन्धानसंस्थायाः नेतृत्वे भारतेन चन्द्रयानम्, मंगलयानम् इत्यादीनि अनेकानि सफलमिशनानि कृत्वा विश्वे स्वस्य तकनीकीसामर्थ्यं प्रमाणीकृतम्। न्यूनव्यये सटीकउपग्रहप्रक्षेपणक्षमतया बहवः देशाः स्वस्य उपग्रहप्रक्षेपणार्थं भारते निर्भरन्ति।
अतः १९ अप्रैल केवलं दिनाङ्कः नास्ति, अपितु भारतस्य अन्तरिक्षइतिहासस्य सा आधारशिला अस्ति या देशं अन्तरिक्षमहाशक्तेः दिशि अग्रे प्रेरयति।
---
महत्वपूर्ण घटनाक्रमाः
१४५१ वर्षे बहलोल लोदी दिल्लीं अधिकृतवान्।
१७७० वर्षे कैप्टन जेम्स कुक ऑस्ट्रेलियादेशं प्राप्तवान्।
१७७५ वर्षे अमेरिकीयक्रान्तेः आरम्भः अभवत्।
१८८२ वर्षे कलकत्तानगरे प्रथमः प्रसूतिअस्पतालः आरब्धः।
१९१० वर्षे हेलीपुच्छलतारः प्रथमवारं दृश्यः अभवत्।
१९१९ वर्षे लेस्ली इरविन नामकः अमेरिकीयः प्रथमवारं पैराशूटेन कूदनं कृतवान्।
१९३६ वर्षे फिलिस्तीने यहूदीविरोधी दङ्गाः आरब्धाः।
१९५० वर्षे श्यामा प्रसाद मुखर्जी केन्द्रीयमन्त्रिमण्डलात् त्यागपत्रं दत्तवान्।
१९७१ वर्षे भारतेन वेस्टइंडीजदेशं पराजित्य टेस्टक्रिकेटशृङ्खला जिताऽभवत्।
१९७२ वर्षे बांग्लादेशः राष्ट्रमण्डलस्य सदस्यः अभवत्।
१९७५ वर्षे आर्यभट्टोपग्रहस्य प्रक्षेपणम् अभवत्।
१९७७ वर्षे उपग्रहसंचारस्य आरम्भः अभवत्।
१९९९ वर्षे बीबीसी संस्थया अन्तर्राष्ट्रीयसमाचारपत्रिकायाः योजना कृताऽभवत्।
२००१ वर्षे बीएसएफ दलैः मेघालयप्रदेशात् बांग्लादेशीयसेना अपसारिताः।
२००३ वर्षे चीनदेशीयया महिला भारोत्तोलकेन विश्वरिकार्डः स्थापितः।
२००५ वर्षे जर्मनीदेशीयः कार्डिनल योसिफ रान्सिंगर नूतनः पोपः निर्वाचितः।
२००६ वर्षे नील आर्मस्ट्रांग महोदयाय चन्द्रखण्डः उपहृतः।
२००७ वर्षे ब्रैंड पार्कर नामकः कार्टूनिस्टः दिवंगतः।
२००८ वर्षे उत्तरप्रदेशसरकारेण भूम्यधिग्रहणार्थं नूतना समिति घोषिताऽभवत्।
२००८ वर्षे पाकिस्तानदेशेन शहीन द्वितीय नामकः प्रक्षेपास्त्रस्य परीक्षणं कृतम्।
२०१० वर्षे एवरेस्टपर्वते स्वच्छताअभियानस्य आरम्भः अभवत्।
२०११ वर्षे फिदेल कास्त्रो पदत्यागं कृतवान्।
---
जन्मदिनानि
१८६४ वर्षे महात्मा हंसराजः जातः।
१९४५ वर्षे सुरेखा सीकरी जाताऽभवत्।
१९५० वर्षे एच एस ब्रह्मा जातः।
१९६८ वर्षे अरशद वारसी जातः।
१९७७ वर्षे अंजू बॉबी जॉर्ज जाताऽभवत्।
---
निधनानि
१८८२ वर्षे चार्ल्स डार्विन दिवंगतः।
१९१० वर्षे अनंत लक्ष्मण कन्हेरे वीरगति प्राप्तवान्।
१९३३ वर्षे सैयद हसन इमाम दिवंगतः।
१९४३ वर्षे सी विजय राघवाचार्य दिवंगतः।
२०२१ वर्षे सुमित्रा भावे दिवंगता।
महत्वपूर्ण अवसराः
अग्निशमनसेवासप्ताहः
भारतस्य उपग्रहक्षेत्रे प्रवेशदिवसः
विश्वयकृतदिवसः
हिन्दुस्थान समाचार