Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 18 अप्रैलमासः (हि.स.)।
केन्द्रीयशिक्षामन्त्रिणः धर्मेन्द्रप्रधानः गुरु अंगद देवस्य पावनप्रकाशपर्वणि अवसरे तस्मै श्रद्धया नमनं कृतवान् तथा तस्य योगदानं स्मृतवान्।
स्वसन्देशे सः उक्तवान् यत् सिखपरम्परां सेवा, अनुशासन, सत्यनिष्ठा, समभाव इत्यादिभिः दिव्यमूल्यैः समृद्धीकर्तुं गुरु अंगद देव महाभागस्य महती भूमिका आसीत्। तेन विशेषतः गुरुमुखीलिपेः प्रसारे लङ्गरपरम्परायाः सुदृढीकरणे च तस्य योगदानं सामाजिकएकतायाः मानवीयमूल्यानां च कृते अत्यन्तं प्रेरणादायकम् इति उक्तम्।
प्रधानः उक्तवान् यत् गुरु अंगद देव महाभागस्य विचाराः आदर्शाश्च समाजं सर्वदा सेवा, समर्पण, सद्भाव इत्येषां मार्गे अग्रे नयिष्यन्ति।
---
हिन्दुस्थान समाचार