Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूमः, 18 अप्रैलमासः (हि.स.)। महिला-आरक्षण-विधेयकं प्राप्तुं राजनैतिक-कलहः तीव्रः जातः। अस्मिन् विषये प्रतिक्रियाम् ददत् एनसीपी नगर-निकायस्य राष्ट्रिय-महासचिवः डॉ. पवन पाण्डेयः शनिवासरे वक्तव्यं निर्गत्य विपक्षस्य उपरि गम्भीरान् आरोपान् कृतवान्।
डॉ. पाण्डेयः अवदत् यत् यदा देशे महिला-सशक्तिकरणस्य चर्चा भवति, तदा सर्वे दलाः महत्यः चर्चाः कुर्वन्ति, परं यदा महिलाभ्यः वास्तविक-अधिकार-प्रदानस्य समयः आयाति, तदा केचन दलाः पश्चात् गच्छन्ति। सः आरोपं कृतवान् यत् महिला-आरक्षण-विधेयकस्य पारितं भवितुं निरोधनं न केवलं लोकतान्त्रिकमूल्यानां विरुद्धम् अस्ति, अपितु एतत् देशस्य अर्ध-जनसंख्यायाः (आधी आबादी) सह अन्यायः अपि वर्तते।
सः उक्तवान् यत् महिलानां सहभागितां वर्धयितुं दीर्घकालात् एषा याचना उत्तिष्ठन्ती अस्ति यत् संसदि विधानसभासु च ताभ्यः पर्याप्तं प्रतिनिधित्वं लभेत। ईदृशे समये यदि अस्यां दिशि दृढपदक्षेपस्य प्रयासः भवति स च बाधितः क्रियते, तर्हि एतत् दुर्भाग्यपूर्णम् अस्ति।
डॉ. पाण्डेयः एतदपि अवदत् यत् देशस्य महिलाः अधुना जागरूकाः सन्ति ताः च एतादृशं राजनैतिकव्यवहारं सम्यक् जानन्ति। सः दावं कृतवान् यत् भविष्ये जनता एतादृशानां निर्णयानां प्रत्युत्तरं लोकतान्त्रिकरीत्या दास्यति।
---------------
हिन्दुस्थान समाचार