Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमः, 18 अप्रैलमासः (हि.स.)।लोकसभायां महिलाआरक्षणविधेयकस्य अपरिते राजनैतिकवातावरणं पुनः उष्णं जातम्। अस्मिन् विषये पक्षविपक्षयोः मध्ये आरोपप्रत्यारोपाणां क्रमः तीव्रः अभवत्। अस्यैव सन्दर्भे जमशेदपुरपूर्वीक्षेत्रस्य विधायक पूर्णिमा साहू काङ्ग्रेसदलस्य तथाऽइण्डी-संघटनस्य उपरि तीक्ष्णं प्रहारं कृतवती।
शनिवासरे प्रकाशिते स्ववक्तव्ये पूर्णिमा साहू विपक्षदलानां व्यवहारं महिलानां प्रति नकारात्मकं निरूप्य उक्तवती यत् संसदः इव महत्त्वपूर्णे मंचे एतादृशं आचरणं लोकतान्त्रिकमूल्यानां विरुद्धम् अस्ति। तया उक्तं यत् देशस्य महिलाभ्यः समभागीदाने विषये विपक्षस्य दृष्टिकोणः निराशाजनकः आसीत्।
विधायिका आरोपं कृतवती यत् ये दलाः महिलासशक्तिकरणस्य वचनानि कुर्वन्ति, ते यदा वास्तविकनिर्णयस्य समयः आगतः, तदा पश्चादपसृतवन्तः। तया उक्तं यत् एतेन स्पष्टं भवति यत् विपक्षदलानां कृते महिलाअधिकारात् अधिकं तेषां राजनैतिकरणनीतिः महत्त्वपूर्णा अस्ति। तस्या मतानुसारं एषः दृष्टिकोणः देशस्य मातृशक्तेः सम्मानस्य विरोधी अस्ति।
पूर्णिमा साहू एतदपि उक्तवती यत् महिलाआरक्षणस्य विषयः केवलं राजनीतिविषयः न, अपि तु सामाजिकन्यायस्य समवसरस्य च प्रश्नः अस्ति। अतः अस्मिन् विषये दलगत-राजनीतिः कर्तुं न युक्तम्। तया आशा व्यक्ता यत् भविष्ये अस्मिन् दिशि सकारात्मकप्रयत्नाः भविष्यन्ति तथा महिलाभ्यः तेषां अधिकारः प्राप्तुं शक्यते।
---------------
हिन्दुस्थान समाचार