Enter your Email Address to subscribe to our newsletters

भोपालम्, 18 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवः अद्य शनिवासरे पश्चिमबङ्गप्रदेशस्य निर्वाचनदौरे भविष्यति। सः अत्र विधानसभा-निर्वाचनस्य सन्दर्भे विविधेषु कार्यक्रमेषु सहभागं कृत्वा भाजपापक्षस्य अभ्यर्थिनां समर्थनार्थं जनसभाः सम्बोधयिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमंत्री डॉ. यादव प्रातः ११:३० वादने कमरहाटी-स्थाने भाजपापक्षस्य प्रत्याशी अरूप चौधरी इत्यस्य समर्थनार्थं जनसभां सम्बोधयिष्यति। ततः परं सः सायं ५:०० वादने मेदिनीपुर-जनपदस्य खड़गपुर सदर विधानसभाक्षेत्रं प्राप्स्यति, यत्र वरिष्ठनेता प्रत्याशी च दिलीप घोष इत्यस्य समर्थनार्थं जनसभां करिष्यति।
---------------
हिन्दुस्थान समाचार